भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 617, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 617

प्राप्यः परमभाग्यत्वात् निषेव्यः स्वामिभावतः । शक्तिकारुण्यभूम्ना च शरण्यस्सीदतां प्रभुः ॥ बहिरन्तश्च तद्व्याप्तिः तत्र यत्रोभयं भवेत् । विभोरणोश्च न बहिर्नान्तः तस्मान्न सा तयोः ॥ प्रयोजनस्य विरहान्न कर्तैश इति ब्रुवन् । तस्य सिद्धावसिद्धौ च व्याघातादिपराहतः ॥ निरपेक्षस्वतन्त्रस्य सहकारिमत्तस्सदा । अप्रवृत्तिः प्रवृत्तिर्वा नित्यं स्यादिति चेन्न तत् ॥ तत्तदिच्छाविशेषेण तत्क्रमस्योपपत्तितः । इच्छासंतत्यनादित्वात् न च मूलक्षयः क्वचित् ॥ 12 सर्वात्मैक्यं विदुः केचिद्देवैक्यं परे विदुः । मूर्तित्रयैक्यं कतिचित् साम्यमेके प्रचक्षते ॥ तेष्वेवान्यतमस्यान्ये विबुधाः परतां विदुः । त्रिमूर्त्युत्तीर्णपरतावादिनोऽप्यपरे बुधाः ॥ स हि व्योमातीतवाद इति शास्त्रात्प्रतीयते । तत्स्वरूपं किंचिदत्र प्रसङ्गात्प्रतिपाद्यते ॥ उपादानं तु भगवान्निमित्तं तु महेश्वरः । इति व्योमातीतवादः दह्रविद्यानिरूपितः ॥ तस्मिन्यदन्तरित्यादौ तच्छब्दो व्योमतत्परः । स चाकाशो नामरूपनिर्वोढा विष्णुरुच्यते ॥

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक) · पृष्ठ 617, कुल 672 में से · BharatKosha