मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 629, कुल 672 में से
संदर्भ में पढ़ेंकर्मजन्योपभोगार्थं शरीरं न प्रवर्तते । तदभावे न कश्चिद्धि हेतुस्तत्रावतिष्ठते ॥ मोक्षार्थी न प्रवर्तेत तत्र काम्यनिषिद्धयोः । नित्यनैमित्तिके कुर्यात्प्रत्यवायजिघांसया ॥ प्रार्थ्यमानं फलं ज्ञातं न चानिच्छोर्भविष्यति । आत्मज्ञे चैतदस्तीति तज्ज्ञानमुपयुज्यते ॥ सर्गप्रलयविज्ञानं समस्तजगदाश्रयम् । दैवप्रभावज्ञानार्थं धर्मानुष्ठानसिद्धये । तत्परत्वेऽप्युपाख्यानेष्वतीव विबुधोत्तमैः । नचैव कार्यस्तत्त्वाभिनिवेश इति निर्णयः ॥ तस्मादद्यवदेवात्र सर्गप्रलयकल्पना । समस्तक्षयजन्मभ्यां न सिद्ध्यत्यप्रमाणिका ॥ सर्वज्ञत्वनिषेध्या च स्रष्टुः सद्भावकल्पना । नच धर्मादृते तस्य भवेल्लोकादिशिष्टता ॥ नचाननुष्ठितो धर्मः नानुष्ठानमृते मतेः । नच वेदादृते सा स्यात् वेदो नच पदादिभिः ॥ तस्मात्प्रागपि सर्वेऽमी स्रष्टुरासन् पदादयः । स्यात्तत्पूर्वकता चास्य चैतन्यादस्मदादिवत् ॥ एवं ये युक्तिभिः प्राहुः तेषां दुर्लभमुत्तरम् । अन्वेष्यो व्यवहारोऽयमनादिर्वेदवादिभिः ॥