मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 634, कुल 672 में से
संदर्भ में पढ़ें592 मानमेयरहस्यश्लोकवार्तिके जनकप्रमुखा ये तु विद्यावन्त इति श्रुताः । तेषां प्राग्जन्मसंन्यासाद्विद्यावाप्तिं विदुर्हि ते ॥ इच्छन्ति केचिच्छ्रवणाद्याधिकारिविशेषणम् । संन्यासमित्यतो विद्यासाधनत्वेन स श्रुतः ॥ अनन्यव्यापारतया श्रवणाद्यनुतिष्ठतः । दृष्टद्वारैव विद्यायामस्याङ्गत्वं विदुः परे ॥ संन्यस्य श्रवणं कुर्यादित्येष नियमे विधिः । यतश्च श्रवणाद्यर्हः कर्मच्छिद्रेषु गृह्यपि ॥ द्विजानामविशेषेण संन्यासः श्रूयते ततः । श्रवणं निर्निरोधं स्यात् अत्र क्षत्रियवैश्ययोः ॥ केचित्तु ब्राह्मणस्यैव संन्यासाश्रमशास्त्रतः । विट्शूद्रयोस्तु श्रवणं तदनङ्गं प्रचक्षते ॥ अन्ये संन्यासिनां मुख्यमधिकारं प्रचक्षते । इतरेषां तु गौणं तं क्रामिकं विधुरादिवत् ॥ 7 सर्वाश्रमपरित्यागो ब्राह्मण्यमिति केचन । नग्नचर्येषु संवर्तदुर्वासःप्रभृतिष्वपि ॥ विद्यासंदर्शनात्सर्वाश्रमिष्वत्याश्रमिष्वपि । अधिकारं विदुर्ब्रह्मविद्यायास्तत्र च स्मृतिः ॥ यं न सन्तं नवा सन्तं नाश्रुतं न बहुश्रुतम् । न सुवृत्तं न दुर्वृत्तं वेद कश्चित्स ब्राह्मणः ॥