मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 636, कुल 672 में से
संदर्भ में पढ़ेंमां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः। स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्॥ अपिचेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः ॥ क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः । मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ॥ समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः । भक्त्या परमया वापि प्रपत्त्या वा महामुने ॥ प्राप्योऽहं नान्यथा प्राप्यो मम कैंकर्य लिप्सुभिः। इत्याह भगवान् साक्षात्सर्वस्य शरणं सुहृत् ॥ प्रपत्त्या भजमानास्तु यादृशास्तादृशा अपि । भगवान् सर्वपापेभ्यो मोक्षयिष्यत्यसंशयम् ॥ भक्तिमार्गोऽपि सर्वेषां यद्यपि श्रूयते तथा । विशिष्टदेहावच्छिन्नप्रारम्भोऽसौ न दुष्यति ॥ धर्मव्याधादयोऽप्यन्ये पूर्वाभ्यासाज्जुगुप्सिते । वर्णावरत्वे संप्राप्तास्संसिद्धिमिति निर्णयः ॥ शूद्रार्चनादिप्रसङ्गे श्रीकृष्णमुनिभिः पुनः । उक्तैषा प्रतिबन्दीति वेदान्तार्यैरुदाहृतम् ॥