मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 637, कुल 672 में से
संदर्भ में पढ़ेंअधिकारी ५ हविष्कृतो यथा शूद्रे यथा वा बहुयाजिनः । निर्वाहः क्रियते तद्वत् शास्त्रस्यास्यापि नान्यथा 10 स्त्रीणां निर्वाणदीक्षा च स्थापिता जैनपण्डितैः । तथा मोक्षाधिकारश्च प्रयासेन समर्थितः ॥ स्त्रीणां च ब्रह्मविद्यायां वेदाचार्येण बोधितः । अधिकारश्रुतो ब्रह्मवादिनीनां क्वचित्क्वचित् ॥ स्त्रीणां तु पारिव्राज्यायामधिकारो निरूपितः । बोधायनेनेति पुनः मस्करी प्राह धर्मवित् ॥ स्त्रीणां तथैव शूद्राणां दीक्षा आगमबोधिताः । तथाच सर्वे सर्वानुग्रहणैकधियो बुधाः ॥ 11 एवंविचारे द्विविधो मार्गो निष्कृष्य लभ्यते । एकस्त्विदानीं सर्वेषां यथाशक्त्यधिकारकृत् ॥ विशिष्टदेहे विद्यायाः निष्पत्तिमभिधित्सति । अन्यो विशुद्धं जन्मैव विद्यारम्भेऽभिवाञ्छति ॥ समाप्तैः फलसिद्धेश्च नियमं नाभिधित्सति । अपि मार्गद्वयं सर्वानुग्रहैकप्रवृत्तिमत् ॥ अयं विशेषस्त्वनयोः कल्पयोरवधार्यते । तारतम्यव्यवस्थाऽद्ये प्रायस्साम्यमनन्तरे ॥ 12 अत्र तत्त्वमिदं बोध्यमधिकारनिरूपणे । अधिकारनिषेधोऽयं न स्वभावनिबन्धनः ॥