मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 646, कुल 672 में से
संदर्भ में पढ़ें604 मानमेयरहस्यश्लोकवार्तिके अस्तित्वमेव सामान्यं घटादिर्भेदलक्षणः । भिन्नकालज्ञानफलौ व्यवहारौ तयोर्मतौ ॥ शास्त्रं निषेधरूपेण तन्मात्रे पर्यवस्यति । नातः प्राप्तार्थत्वमूलमानर्थक्यं प्रसज्यते ॥ इत्यस्य विस्तरः प्रायश्श्रीभाष्यादावनूदितः । स निर्विकल्पैकमानवादसिद्धान्तवर्त्मगः ॥ 6 विशेषमात्रविषयनिर्विकल्पकपद्धतौ । सामान्यमात्रविषयविदामाक्षेपसंग्रहः ॥ विचित्रवासनासिद्धयै विशेषोपगमो वृथा । विशेषाणां वासनासु हेतुताया असंKeyभवात् ॥ तथात्वे शुक्तिरजतवासनादेरसंभवः । तत्तद्विषयविज्ञप्तिप्रवाहो हेतुरिष्यते ॥ आपणे सत्यरजतं यद्यप्यस्ति तथापि हि । मिथ्यार्थज्ञानहेतुत्वं वासनासूरीकृतम् ॥ पूर्वपूर्वभ्रमोपात्तैस्संस्कारैर्विविधैरिह । विकल्पवैचित्र्यसिद्धौ किं दृष्टैः कल्पितैश्च किम् अतो विकल्पविषयाः विचित्रा न स्वलक्षणाः । कल्पने वा लाघवाय विचित्राद्वैतमिष्यताम् ॥ नचानेकस्वभावत्वमेकस्यात्र विरोधकृत् । रूपगन्धरसस्पर्शस्वभावाद्यणुवादिनाम् ॥