मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 645, कुल 672 में से
संदर्भ में पढ़ेंप्रत्यक्षप्राबल्यवादः 60 तत्र दोषोऽनादिभेदवासनेति विनिर्णयः । निषेद्धृशास्त्रप्रामाण्यमन्यथानोपपद्यते ॥ अनादिनिधनाच्छिन्नसंप्रदायसमागतम् । संभावनानर्हदोषगन्धं शास्त्रं प्रतीयते ॥ ज्योतिष्टोमेनेतिशास्त्रं यत्तु भेदावलम्बि तत् । बाध्यते मोक्षशास्त्रेण परेणापच्छिदानयात् ॥ मोक्षशास्त्रेऽपि सगुणब्रह्मणो बोधकं तु यत् । बाध्यते निर्गुणपरशास्त्रेणापि परेण तत् ॥ 5 अथ प्रकारान्तरेण विरोधविनिवारणा । असन्निकृष्टविज्ञानं शब्दविज्ञानतश्च यत् ॥ तच्छास्त्रमित्यौपवर्षं लक्षणं शबरोदितम् । असन्निकृष्टवाचा च द्वयमत्र जिहासितम् ॥ ताद्रूप्येण परिच्छित्तिस्तद्विपर्ययतोऽपिवा । इति कौमारिलव्याख्या पठ्यते श्लोकवार्तिके ॥ तद्विरोधात्सानुशयैः अन्यथा प्रोच्यते यथा । प्रत्यक्षादिविरोधे हि बलीयश्शास्त्रमिष्यते ॥ न विरोधं प्रपश्यामोऽध्यक्षं सन्मात्रगोचरम् । भेदे किंचिन्न प्रमाणं नैपुण्येन निरूपणे ॥ घटोऽस्तीतिपटोऽस्तीतिप्रतीतिव्यवहारयोः । अस्तित्वमध्यक्षभास्यं भ्रान्तिभास्यं घटादिकम्