मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 644, कुल 672 में से
संदर्भ में पढ़ें602 मानमेयरहस्यश्लोकवार्तिके संवाददर्शनात्प्रायः विषये पारलौकिके । अतिशङ्कां न कुर्वन्ति श्रद्दधानाः श्रुतिस्मृतीः ॥ असत्यपि परे लोके त्याज्यं कर्माशुभं विदुः । यदि न स्यात्तदा किं स्यादस्तिचेन्नास्तिको हतः । यादृच्छिकश्चेत् संवादः क्वचिद्बाधादिदर्शनात् । प्रत्यक्षेऽपि तथा ज्ञातुं शक्यते युक्तिचिन्तकैः ॥ तस्याप्यप्रामाण्यपक्षे व्यवहारो विलीयते । सर्वत्र भ्रान्तिक्लृप्तिश्चेत्कल्पको न विशिष्यते ॥ प्रत्यक्षमनुमानं च यथा मानं तथाऽऽगमः । उपजीव्यविरोधेन ज्येष्ठं ताभ्यां न हन्यते ॥ तत्र यत्सावकाशत्वात् अन्यथासिद्धिमश्रुते । तद्दुर्बलं स्यान्निरवकाशं तु प्रबलं मतम् ॥ अनन्यथासिद्धमेतत्, अवकाशस्त्वसौ मतः । विषयान्तरलाभाख्यः क्वचित्स्यात्पदहोमवत् ॥ अथाप्रमाणकोट्यन्तर्भावः रज्जूरगादिषु । एवं प्रायेण विश्वस्य सत्यतावादिनो विदुः ॥
- अथ प्रपञ्चमिथ्यात्ववाद्यविद्याविदां मते । प्राबल्यरीतिरेषोक्ता निर्विशेषपरश्रुतेः ॥ दोषमूलप्रसूतत्वादन्यथासिद्धिसंभवात् । भेदावलम्बाध्यक्षं शास्त्रबाध्यमितीर्यते ॥