मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 648, कुल 672 में से
संदर्भ में पढ़ें606 मानमेयरहस्यश्लोकवार्तिके अवरेण नरेणैष प्रोक्तो ज्ञातुं न शक्यते । अनन्यप्रोक्त एतस्मिन्गतिर्नास्त्यन्यतो यतः ॥ नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा । अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ॥ अस्तीत्येवोपलब्धव्यः तत्त्वभावेन चोभयोः । अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति ॥ एषा तर्केण न मतिरापनेयेति चाब्रवीत् । मृत्युः कठोपनिषदि शिष्याय नचिकेतसे ॥ इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे । इत्थं तलवकारीयैः श्रूयते चापि वाजिभिः ॥ चोदनालक्षणं धर्मं जैमिनिस्तदसूत्रयत् । ब्रह्मापि शास्त्रयोनीति ह्यब्रवीद्बादरायणः ॥ ३ ततस्तर्काप्रतिष्ठानादित्यप्याह स्वयं स्फुटम् । युक्तिस्त्वनिर्णीतबलाबलेति न्यायवित्तमाः ॥ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ॥ बहुकृत्वोऽपि वस्त्वात्मा युक्त्यैव परिनिश्चितः । देशकालादिभेदेन ज्ञायते पुनरन्यथा ॥ वेदशास्त्राविरोधी च तर्कश्चक्षुरपश्यताम् । रूपमात्राद्धि वाक्यार्थः केवलात्रावतिष्ठते ॥