भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 649, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 649

वाक्यात्प्रकरणादर्थादौचित्याद्देशकालतः । शब्दार्थाः प्रविभज्यन्ते न रूपादेव केवलात् ॥ शब्दानामेव सा शक्तिः तर्को यः पुरुषाश्रयः । स शब्दानुगतो न्यायोऽनागमो ह्यनिबन्धनः ॥ इति भर्तृहरिः प्राह वाक्यपद्यां विचक्षणः । श्रुत्यर्थस्यानुकूलो यः स न्यायस्तदभीप्सितः ॥ तस्माच्छब्दः तर्कनिष्ठ इति नैवावधारयेत् । तात्पर्यनिर्णयार्थो यस्तर्कोऽसौ शब्दलक्षणः ॥ आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः ॥ वाच्यार्था निहितास्सर्वे वाङ्मूला वाग्विनिस्सृता। तां तु यस्तेनयेद्वाचं स सर्वस्तेयकृन्नरः ॥ तस्माद्विरोधे धर्मस्य निश्चित्य गुरुलाघवम् । यतो भूयस्ततो विद्वान् कुर्याद्धर्मविनिर्णयम् ॥ मनुव्यासप्रभृतयः क्रमादेवं वचोऽब्रुवन् । दुस्तर्को दूरतस्त्याज्यः विपरीतार्थबुद्धिकृत् ॥ तस्माद्विरुद्धसंस्कारशिक्षितानां परस्परम् । विवादो नहि विश्राम्येद्युगानामयुतैरपि ॥ अतो विरुद्धसंस्कारोपरोधायैव भावना । संप्रदायानुरोधेनाभ्यसनीयेति देशना ॥