मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 650, कुल 672 में से
संदर्भ में पढ़ें608 मानमेयरहस्यश्लोकवार्तिके यावद्यावद्विवादाय मुक्तकं दीयते मनः । अनवस्थादिदोषेण तावत्तावद्विहन्यते ॥ अतएवाग्रहाविष्टाः सहसा नोपदेशतः । स्वमतं न त्यजन्तीति संशयः प्राक्प्रदर्श्यते ॥ संदिग्धास्ते तु सुकराः परिवर्तयितुं नराः । इत्येवं रूढसंस्कारः शिथिलीक्रियते बुधैः ॥ 4 ननु सर्वत्र सिद्धान्ते प्रायेण व्यवहारतः । लाघवन्यायसहितात्पदार्थपरिशुद्धयः ॥ स एव लाघवन्यायः लौकिकस्सर्वसम्मतः । पश्वादयोऽप्यार्जवेन धावन्ति ग्रासतत्पराः ॥ एकमात्राराघवेन पुत्रोत्सवसुखं बुधाः । मन्यन्त इति सिद्धान्तः वैयाकरणसम्मतः ॥ तथा लाघवतर्कानुगृहीतो यः प्रवर्तते । विचारस्स हि मीमांसेत्याहुर्वैदिकसूरयः ॥ लाघवेनैव तर्केण पदार्थानां व्यवस्थितिम् । निरूपयन्ति धीमन्तः तार्किका अपि यौक्तिकाः सैषा लाघवबुद्धिस्तु वासनामनुवर्तते । वासना नाम संस्कारः स दृढो यत्र यादृशः ॥ तादृशस्तत्र फलति नहि निम्बो मधुद्रवः । तस्माद्वासनया वस्तुसिद्धिर्बाह्येति सिध्यति ॥