मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 651, कुल 672 में से
संदर्भ में पढ़ें5 अत्रोच्यते संप्रदायो नाम सर्वगुरुर्महान् । परंपरासमायातोपदेशस्सोऽभिधीयते ॥ आम्नाय इत्यादिशब्दाः तत्पर्यायाः प्रकीर्तिताः । सत्संप्रदायराहितशास्त्रैरर्थस्य निर्णयः ॥ दुष्करः तत्सदाचार्यसंप्रदायपरिग्रहः । शास्त्रामूलस्संप्रदायश्शास्त्राननुमतोऽपिवा । भ्रमादिसंभावनया बाह्यतुल्यो मतो बुधैः ॥ स च सन्नित्यसंश्चेति द्विविधः प्रथमोऽत्र नः । द्वितीयस्तु परेषां स्यात् नियमो हेतुदर्शनात् ॥ अधर्मेन्द्रियदोषाभ्यां दुस्तर्काभ्यासतोऽपिवा । दुर्व्याप्तेरनुसन्धानाद्विप्रलम्भकवाक्यतः ॥ तत्त्वाग्रहेण सहितात् अतत्त्वग्रहसम्भवः । स एव संप्रदायश्चेत् असंत्स्यादिति नः क्रमः ॥ परेषामथ सिद्धान्ते हेतुदर्शनमुच्यते । अनन्यगतिकाः स्वैररसिका जीविकार्थिनः ॥ तथा पाषण्डिसंसर्गाः कुतर्काभ्यासिनोऽलसाः । एवमादिप्रसिद्धास्ते सूरिभिः प्रकटीकृताः ॥ हेतवोऽनन्यथासिद्धाः वीक्ष्यन्तां तन्त्रवार्तिके । प्रतिमाजल्पनं शाखाभङ्गः पाषाणपाटनम् ॥ इत्यादिभिः कुत्सिताभिः सिद्धिभिर्वञ्चिताः परे । M. R. 77