मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 664, कुल 672 में से
संदर्भ में पढ़ें22 मानमेयरहस्यश्लोकवार्तिके ये तु तत्त्वं विनिर्णैतुमिच्छन्ति स्वव्यवस्थया । भ्राम्यन्ति, तेषु कृपया कृतार्थास्ते भवन्त्विति ॥ अपनेतुं भ्रमं चापि परार्थ्यात्प्रयतामहे । दया हि स्वार्थानपेक्षपरदुःखासहिष्णुता ॥ यदि काचित्प्रतिज्ञा स्यात्तदा दोषविचारणा । नास्ति प्रतिज्ञा काचिन्नः तस्मान्नैवास्ति दूषणम् ॥ नातः पर्यनुयोगाहाः कथंचिदपि वादिभिः । इति शून्यैकान्तवादः तत्र स्यादिदमुत्तरम् ॥ मर्यादास्थापनार्थं च मानतकौ समुत्थितौ । सिंहारण्यवदन्योन्यं गुप्तौ तौ स्वान्यसाधकौ ॥ महीमिवच मर्यादां अनधिष्ठाय शाश्वतीम् । पदन्यासो न चोराणां प्रच्छन्नप्रकटात्मनाम् ॥ परमर्यादया ब्रूमः परव्याहतिमित्यसत् । स्वव्याघातादिभङ्गानां परानङ्गीकृतिर्यतः ॥ यद्यस्येष्टं तत्तु तस्य प्रयोजनमिति स्थितम् । सर्वभूतानुग्रहोऽपि कथं न स्यात्प्रयोजनम् ॥ सोऽस्य पक्षः स सिद्धान्तः वैताण्डिककथा वृथा । सर्वशून्यविदां सर्वा धीर्मृषेत्यापि धीर्मृषा ॥ तस्मान्निषेधसिद्धान्तः स्वयमेव विहन्यते । विश्वखण्डनसिद्धान्तोऽप्येवमेव हि खण्डितः ॥