मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 670, कुल 672 में से
संदर्भ में पढ़ेंसैषा वसुमती चापि येन राजन्वती कृता । सरितस्सागरीभूताः मरवोऽप्युर्वरीकृताः ॥ आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ॥ इति वाल्मीकिमुनिना तथा व्यासमहर्षिणा । सौहार्देन प्रतिज्ञातं पूरितं भूभुजाऽमुना ॥ बहुना किमिहोक्तेन सर्वविद्वदुपाश्रयः । सद्रत्नहारकटकबहुमानितसत्प्रजः ॥ तेन भूपतिवर्य्येण योऽहं विद्यैकसंश्रयः । पण्डितानां रत्नमिति बिरुदेन विभूषितः ॥ भूयस्तथैव च महामहोपाध्यायभूषणम् । तदिण्डियाचक्रवर्तिसन्निधेरुपलम्भितः ॥ यदन्तेवासिनो लब्धवर्णाः नानाकलास्वपि । भूयो भद्रासनस्थेन तेनैव बहुमानिताः ॥ योऽनेकग्रन्थनिर्माणधुरीणो विश्वविश्रुतः । लक्ष्मीपुरंश्रीनिवासाचार्योऽसौ विदुषां मणिः ॥ एकोनविंशशतके पञ्चमे दशकेऽष्टमे । आत्मीयैकोनषष्ट्यब्दे यं प्रबन्धं व्यरोरचत् ॥ ३ महीशूरमहाराजतुर्यश्रीकृष्णभूपतेः । कीर्तिकेतुः मानमेयरहस्यश्लोकवार्तिकम् ॥