मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 669, कुल 672 में से
संदर्भ में पढ़ेंउपसंहारः 6 चतुर्दशे च शतके शालिवाहशके च सः । श्रीमन्महीशूरदेशराजाऽऽसीदिति विश्रुतः ॥ स पवित्रात्रेयगोत्रः बह्वृचाश्वलायनः । तत्सन्ततौ चतुर्विंशोत्तमाङ्गत्वमुपाश्रितः ॥ शालिवाहशकैकोनविंशेऽथ शतके पुनः । सप्तमे हायने जात एष श्रीकृष्णभूपतिः ॥ मोचारसमुचा वाचा नीचीकृतरसान्तरः । यशःकुसुमसंदोहवासिताशाऽबलालकः ॥ दयादाक्षिण्यसौलभ्यसौशील्यमहदाश्रयः । श्रीमन्महीशूरराज्यसर्वसौभाग्यदायकः ॥ सदाचारपरित्राता दुराचारनिवारकः । सर्वभूपशिरःकम्पसंपादकशुभव्रतः ॥ परोपसर्पणक्लेशतारिताश्रितसज्जनः । शान्तो दान्तश्च राजर्षिः यस्स्याज्जनकसन्निभः आशीर्वादाक्षतफलधरश्रुतिशिरःकरः । धर्मो विग्रहवानेषः नैषद्देहेह वाङ्मृषा ॥ ज्योतिर्मयं खगोलं स्यात् भूगोलं तद्विपर्ययः । इति भेदो निराकारि यद्देशे वैद्युतत्विषा ॥ कनकाजलपातोत्थविद्युच्छक्तिसमृद्धितः । कनकं खन्यते येन यत्रान्वर्था सरित्कृता ॥