भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

उपसंहारः 6 चतुर्दशे च शतके शालिवाहशके च सः । श्रीमन्महीशूरदेशराजाऽऽसीदिति विश्रुतः ॥ स पवित्रात्रेयगोत्रः बह्वृचाश्वलायनः । तत्सन्ततौ चतुर्विंशोत्तमाङ्गत्वमुपाश्रितः ॥ शालिवाहशकैकोनविंशेऽथ शतके पुनः । सप्तमे हायने जात एष श्रीकृष्णभूपतिः ॥ मोचारसमुचा वाचा नीचीकृतरसान्तरः । यशःकुसुमसंदोहवासिताशाऽबलालकः ॥ दयादाक्षिण्यसौलभ्यसौशील्यमहदाश्रयः । श्रीमन्महीशूरराज्यसर्वसौभाग्यदायकः ॥ सदाचारपरित्राता दुराचारनिवारकः । सर्वभूपशिरःकम्पसंपादकशुभव्रतः ॥ परोपसर्पणक्लेशतारिताश्रितसज्जनः । शान्तो दान्तश्च राजर्षिः यस्स्याज्जनकसन्निभः आशीर्वादाक्षतफलधरश्रुतिशिरःकरः । धर्मो विग्रहवानेषः नैषद्देहेह वाङ्‌मृषा ॥ ज्योतिर्मयं खगोलं स्यात् भूगोलं तद्विपर्ययः । इति भेदो निराकारि यद्देशे वैद्युतत्विषा ॥ कनकाजलपातोत्थविद्युच्छक्तिसमृद्धितः । कनकं खन्यते येन यत्रान्वर्था सरित्कृता ॥

सैषा वसुमती चापि येन राजन्वती कृता । सरितस्सागरीभूताः मरवोऽप्युर्वरीकृताः ॥ आत्मा सुखे नियोक्तव्यः सुखभाजः प्रजाः स्मृताः सर्वस्तरतु दुर्गाणि सर्वो भद्राणि पश्यतु ॥ इति वाल्मीकिमुनिना तथा व्यासमहर्षिणा । सौहार्देन प्रतिज्ञातं पूरितं भूभुजाऽमुना ॥ बहुना किमिहोक्तेन सर्वविद्वदुपाश्रयः । सद्रत्नहारकटकबहुमानितसत्प्रजः ॥ तेन भूपतिवर्य्येण योऽहं विद्यैकसंश्रयः । पण्डितानां रत्नमिति बिरुदेन विभूषितः ॥ भूयस्तथैव च महामहोपाध्यायभूषणम् । तदिण्डियाचक्रवर्तिसन्निधेरुपलम्भितः ॥ यदन्तेवासिनो लब्धवर्णाः नानाकलास्वपि । भूयो भद्रासनस्थेन तेनैव बहुमानिताः ॥ योऽनेकग्रन्थनिर्माणधुरीणो विश्वविश्रुतः । लक्ष्मीपुरंश्रीनिवासाचार्योऽसौ विदुषां मणिः ॥ एकोनविंशशतके पञ्चमे दशकेऽष्टमे । आत्मीयैकोनषष्ट्यब्दे यं प्रबन्धं व्यरोरचत् ॥ ३ महीशूरमहाराजतुर्यश्रीकृष्णभूपतेः । कीर्तिकेतुः मानमेयरहस्यश्लोकवार्तिकम् ॥

उपसंहारः 62 तत्सौशील्येनैव शुद्धं तेनैव प्रचयं गतम् । किंकुर्वज्जगतामेतत् जीयात्सफलतां गतम् ॥ आकाशस्य स्थितिर्यावद्यावदप्यवनेः स्थितिः । तावदस्य स्थितिः भूयात्तमो लोकस्य निघ्नतः ॥ यस्सर्वज्ञः सर्वशक्तः तथा कारुणिकः परः । अन्तरान्मा महोदारः वासुदेवस्स तुष्यति ॥ यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् । यत्तपस्यामि हे कृष्ण तत्करोमि त्वदर्पणम् ॥ इत्थं लक्ष्मीपुरंश्रीनिवासविद्वन्मणिर्मुदा । प्रयोजनपरिच्छेदं समगृहीत चान्तिमम् ॥ प्रीयतां भगवान् वासुदेवः. इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू- भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग- नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री- मद्भिरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम- द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि- तस्य महामहोपाध्यायपण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत- महापाठशालानिगमान्तप्रधानाोपाध्यायस्य श्रीमतो लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु मानमेयरहस्यश्लोकवार्तिके प्रयोजनकाण्डः द्वितीयः समाप्तः समाप्तश्च प्रबन्धः. श्रीः.

उपसंहारः 62 तत्सौशील्येनैव शुद्धं तेनैव प्रचयं गतम् । किंकुर्वज्जगतामेतत् जीयात्सफलतां गतम् ॥ आकाशस्य स्थितिर्यावद्यावदप्यवनेः स्थितिः । तावदस्य स्थितिः भूयात्तमो लोकस्य निघ्नतः ॥ यस्सर्वज्ञः सर्वशक्तः तथा कारुणिकः परः । अन्तरात्मा महोदारः वासुदेवस्स तुष्यति ॥ यत्करोमि यदश्नामि यज्जुहोमि ददामि यत् । यत्तपस्यामि हे कृष्ण तत्करोमि त्वदर्पणम् ॥ इत्थं लक्ष्मीपुरंश्रीनिवासविद्वन्मणिर्मुदा । प्रयोजनपरिच्छेदं समग्रहीत् चान्तिमम् ॥ प्रीयतां भगवान् वासुदेवः. इति श्रीवत्सकुलकलशजलनिधिकौस्तुभायमानश्रीवेङ्कटार्यतनू- भवस्य ताताम्बागर्भशुक्तिमुक्ताफलायमानस्य श्रीमत्कस्तूरीरङ्ग- नाथविद्वन्मणिकरुणाकटाक्षसमासादितसारस्वतसर्वस्वस्य श्री- मद्विरक्तराघवार्यचरणानुगृहीतसकलसम्प्रदायरहस्यस्य श्रीम- द्राजाधिराजमहीशूरमहीधुर्यतुर्यश्रीकृष्णराजसार्वभौमपरिपोषि- तस्य महामहोपाध्यायपण्डितरत्नाद्यनेकबिरुदालङ्कृतस्य संस्कृत- महापाठशालानिगमान्तप्रधानोपाध्यायस्य श्रीमतो लक्ष्मीपुराभिजनस्य श्रीनिवासाचार्यस्य कृतिषु मानमेयरहस्यश्लोकवार्तिके प्रयोजनकाण्डः द्वितीयः समाप्तः समाप्तश्च प्रबन्धः. श्रीः.