भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 71, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 71

सौगतदर्शनम् भावानां निस्स्वभावानां न सत्ता विद्यते यतः। सतीदमस्मिन् भवतीत्येतन्नैवोपपद्यते ॥ फलं च प्रत्ययमयं प्रत्ययाश्चास्वयंमयाः। कथमस्वंमयेभ्यो यत् तत्प्रत्ययमयं कथम् ॥ पटः कारणतस्सिद्धः सिद्धं कारणमन्यतः। सिद्धिर्यस्य स्वतो नास्ति तदसज्जनयेत्कथम् ॥ अनुत्पन्नोऽयमुत्पादः स्वात्मानं जनयेत्कथम्। अथोत्पन्नो जनयति जातः किं जन्यते पुनः ॥ यः प्रतीत्यसमुत्पादं पश्यतीदं स पश्यति। दुःखं समुदयं चैव निरोधं मार्गमेव च ॥ प्रपञ्चोपशमायैव शून्यता सोपदिश्यते। तस्मात् प्रपञ्चोपशमः शून्यतायां प्रयोजनम् ॥ शून्यत्वं नास्तितारूपं भवांस्तु परिकल्पयन्। प्रपञ्चं वर्धयन्नेव न च वेत्ति प्रयोजनम् ॥ अपरप्रत्ययं शान्तं प्रपञ्चैरप्रपञ्चितम्। निर्विकल्पमनानार्थमेतत्तत्त्वस्य लक्षणम् ॥ प्रपञ्चविनिवृत्त्येकस्वभावा या च शून्यता। तस्यां तु नास्तितादृष्टिरमलायां नयुज्यते ॥ यं चार्थं शून्यताशब्दस्समुपादाय वर्तते। स प्रतीत्यसमुत्पादः मध्यमा प्रतिपत्तु सा ॥