मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 72, कुल 672 में से
संदर्भ में पढ़ें30 मानमेयरहस्यश्लोकवार्तिके आसीदसदेवेदमग्रे ततो वै सदजायत । इति छान्दोग्योपनिषद्ब्राह्मणं श्रूयते सदा ॥ इदं चापिहितं तुच्छेनेति ब्राह्मणदर्शनम् । यच्च तित्तिरिशाखायां तदप्यत्र समञ्जसम् ॥ आसीदिदं तमोभूतमित्याद्याः श्रुतयोऽपि च । स्मृतयश्चात्र सिद्धान्ते कटाक्षान् पातयन्ति हि एवं माध्यमिकैकान्तः स माध्यमिकपूर्वके । वृत्तिग्रन्थे च सव्याख्ये पर्यष्कारीति निर्णयः ॥ 13 अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः । ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥ तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् । यदा तदा न संचोद्या ग्राह्यग्राहकलक्षणा ॥ अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्धयति । उपलम्भोपलम्भेन व्यवहारोऽखिलो मतः ॥ अन्यथा परकीयोपलम्भेनापि पुमानयम् । चेष्टेत तस्मात् स्वस्यैव स्वयमेवोपलभ्यते ॥ सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैः दृश्येतेन्दाविवाद्वये ॥