मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 73, कुल 672 में से
संदर्भ में पढ़ेंसौगतदर्शनम् ३१ तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम् । तत्तु प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ॥ सवासनालयज्ञानानुवृत्तिः बन्ध इष्यते । विशुद्धालयविज्ञानसंततिर्मोक्ष ईरितः ॥ 14 कल्पनापोढमभ्रान्तं प्रमाणं निर्विकल्पकम् । विकल्पोऽवस्तुनिर्भासादसंवादादुपप्लवः ॥ ग्राह्यं वस्तु प्रमाणं तु ग्रहणं निर्विकल्पकम् । न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥ विकल्पविषये वृत्तिरिष्टा शब्दानुमानयोः । अवस्तुविषयाश्चैते विकल्पा इति निर्णयः ॥ विकल्पोऽध्यवसायः स्यात् ग्रहणं निर्विकल्पकम्। तस्मादध्यवसेयं च ग्राह्यं चेति द्विधं जगत् ॥ शब्दसंसर्गयोग्यार्थप्रतिभासा हि बुद्धयः । सविकल्पा भवन्त्येते व्यपदेशपदास्पदम् ॥ विकल्पयोनयश्शब्दाः विकल्पाश्शब्दयोनयः । कार्यकारणता तेषां नार्थं शब्दाः स्पृशन्त्यमी ॥ मानमेयफलानामध्येक्यं विज्ञानवादिनः । “अविभागोऽपी”ति विदुः निरालम्बनसिद्धये ॥ फलक्रियाकारकाणामैक्यं वैभाषिकादयः । “क्रियैव कारकम्” इति क्षणभङ्गाय चाश्रयन् ।