मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 74, कुल 672 में से
संदर्भ में पढ़ेंप्रत्यक्षवेद्यं यद्वस्तु विशेषः तत्स्वलक्षणम् । परोक्षवेद्यं यच्चापि तत्स्यात्सामान्यलक्षणम् ॥ सजातीयविजातीयव्यावृत्तं स्वत एव यत् । तत्स्वलक्षणमित्युक्तं विशेष इति निर्णयः ॥ यथा च पृथवी गन्धलक्षणा स्पर्शलक्षणम् । जलमित्यादिकं नैवं किंचित्स्यादन्यलक्षणम् ॥ धर्मधर्मिविभङ्गेन जात्यादेरपि भङ्गतः । नैव किंचित्त्वनुगतं यत्स्यात्सामान्यलक्षणम् ॥ अभिन्नदेशकालं यत् तत्स्वलक्षणमुच्यते । इति सर्वार्थसिद्धौ हि स्वलक्षणमनूदितम् ॥ सौत्रान्तिकाः पुनरिहापोहसामान्यवादिनः । स वादश्शून्यनिष्ठेति न्यायरत्नाकरोदितम् ॥ वात्सीपुत्रास्तु शब्दादीन् पञ्च वैभाषिका विदुः । शब्दात्मानश्चतुर्ष्वेव केचिदित्यपरेऽब्रुवन् ॥ निर्धर्मका निराधाराः रूपाद्यास्स्युः चतुर्विधाः । पदार्थास्ते चक्षुरादिप्रत्येकेन्द्रियगोचराः ॥ स्पर्शाद्येकद्वित्रिचतुःस्वभावाणुचतुष्कतः । पुञ्जः प्रपञ्चः संबन्धो नाम वस्तु न हीष्यते ॥ षट्केन युगपद्योगात्परमाणोष्षडंशता । तेषामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः ॥