मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 75, कुल 672 में से
संदर्भ में पढ़ेंसौगतदर्शनम् 33 प्रतिसंख्याऽप्रतिसंख्यानिरोधौ व्योम चेति यत् । बुद्धिबोध्यं त्रयादन्यत्संस्कृतं क्षणिकं च तत् ॥ स निरन्वयनाशः स्याद्धर्मो धर्म्यपि वा पुनः । पूर्वसंघातभावो वा यद्भावे नानुवर्तते ॥ उत्पत्तिश्च तथाभूता निरन्वयसमुद्भवा । तावुभौ सर्वभावानां नियताविति सौगताः ॥ 15 त्यज्यतां दीर्घसंसारकारणं स्थिरताग्रहः । गृह्यतां क्षणभङ्गित्त्वं परवैराग्यकारणम् ॥ यत्सत्तत् क्षणिकं सन्तश्चामी भावा इति स्थितम् । सत्ताऽर्थकर्मकारित्वं तत् व्याप्यं व्यापकः पुनः ॥ क्रमाक्रमान्यतरयोर्योगः स स्थिरवस्तुनः । व्यावर्तमानो व्याप्यं च विनिवर्तयतीत्यतः ॥ व्यतिरेकेण सा व्याप्तिः स्यात्तथाऽन्वयतः पुनः । सत्त्वं नानास्वभावत्वं स्थैर्यमेकस्वभावता ॥ तयोर्विरोधो युक्त्यापि वक्तुं न हि न शक्यते । एवं द्विधा व्याप्तियोगात् सत्त्वं साध्ये व्यवस्थितम् ॥ किंचात्र कारकावस्था स्यादेकक्षणवर्तिनी । सामग्री सा यतः कार्यसर्वदोत्पत्त्यदर्शनम् ॥ व्यापारावेशवशतः साह्यसन्निधितोऽपि वा । कारकत्वं वस्तुरूपं तदेकक्षणवृत्ति हि ॥ M.R. 5