मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 76, कुल 672 में से
संदर्भ में पढ़ें34 मानमेयरहस्यश्लोकवार्तिके कार्योत्पत्त्यैव तत्क्लृप्तिः तत्पूर्वोत्तरयोरसत् । तदेव परमार्थं सत् अन्यस्याजनकत्वतः ॥ कारकत्वस्य चाभावे ह्यस्तित्वमपि दुर्वचम् । ततश्च सर्वैः प्रायेण क्षणिकत्वमुपाश्रितम् ॥ सौगताः पीतवन्तश्च यश एव हि केवलम् । यत्कारकं यच्च सत्स्यात् तत्सर्वं क्षणिकं तत् ॥ विनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः । अनश्वरस्वभावेऽस्मिन् कृतं प्रलयहेतुभिः ॥ केचित्तु बुद्धोपदिष्टं तत्त्वं नित्यं च किंचन । सत्त्वाख्यसाधनं तेन भवेदागमबाधितम् ॥ ध्रुवभावित्वाख्यहेतुं मन्यन्ते क्षणसिद्धये । तत्प्रकारस्य संक्षेप एषोऽस्ति श्लोकवार्तिके ॥ अहेतुको विनाशो हि ध्रुवभावितया स्थितः । जनित्वा ध्वंसते सर्वं स्थूलस्सूक्ष्मो द्विधा च सः बुद्धिपूर्वं विनाशे हि प्रतिसंख्यानिरोधधीः । अबुद्धिपूर्वकस्तेषां निरोधोऽप्रतिसंख्यया ॥ तौ च द्वावप्यनाशित्वादिष्टौ अकृतकावपि । आहुः स्वभावतस्सिद्धं तं विनाशमहेतुकम् ॥ हेतुर्यस्य विनाशोऽपि तस्य दृष्टोऽङ्कुरादिवत् । विनाशस्य विनाशस्तु नास्ति तस्मादकृत्रिमः ॥