मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 78, कुल 672 में से
संदर्भ में पढ़ें36 मानमेयरहस्यश्लोकवार्तिके इति सौगतसिद्धान्तं कुतर्क इति ये विदुः । कणादगौतममुखाः तैः पुनः परिशोधिताः ॥ मानमेयादयः सर्वैस्सुगृहीताः परीक्षकैः । तथापि संगतिज्ञानायानूद्यन्ते तदुक्तयः ॥ (7) न्यायदर्शनम्. 1 काणादं गौतमीयं चाप्येकीकृत्यैव दर्शनम् । मानमेयविनिष्कर्षः संक्षेपादिह कथ्यते ॥ प्रमेयशास्त्रं काणादं मानशास्त्रं तु गौतमम् । 2 आन्वीक्षिकी मानविद्याऽध्यात्मशास्त्रमितीर्यते ॥ प्रदीपस्सर्वविद्यानामालयस्सर्वकर्मणाम् । आश्रयस्सर्वधर्माणां विद्योद्देशे प्रकीर्तिता ॥ ज्ञातं सम्यगसम्यग्वा यन्मोक्षाय भवाय वा । तत्प्रमेयमिहाभीष्टं न प्रमाणार्थमात्रकम् ॥ 3 द्रव्यं गुणस्तथा कर्म सामान्यं सविशेषकम् । समवायस्तथाऽभावः पदार्थास्सप्त कीर्तिताः ॥ क्षित्यप्तेजोमरुद्व्योमकालदिग्देहिनो मनः । द्रव्याण्यथ गुणा रूपं रसो गन्धः ततः परम् ॥ संयोगश्च विभागश्च परत्वं चापरत्वकम् । बुद्धिस्सुखं दुःखमिच्छा द्वेषो यत्नो गुरुत्वकम् ॥