मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 79, कुल 672 में से
संदर्भ में पढ़ेंन्यायदर्शनम् द्रवत्वं स्नेहसंस्कारावहृष्टं शब्द एव च । उत्क्षेपणं ततोऽवक्षेपणमाकुञ्चनं तथा ॥ प्रसारणं च गमनं कर्माण्येतानि पञ्च च । भ्रमणं रेचनं स्यन्दनोध्वर्ज्वलनमेव च ॥ तिर्यग्गमनमप्यत्र गमनादेव लभ्यते । सामान्यं द्विविधं प्रोक्तं परं चापरमेवच ॥ द्रव्यादित्रिकवृत्तिस्तु सत्ता परतयोच्यते । परभिन्ना तु या जातिस्सैवापरतयोच्यते ॥ द्रव्यत्वादिकजातिस्तु परापरतयोच्यते । व्यापकत्वात्पराऽपि स्याद्व्याप्यत्वादपराऽपिच ॥ अन्त्यो नित्यद्रव्यवृत्तिः विशेषः परिकीर्तितः । घटादीनां कपालादौ द्रव्येषु गुणकर्मणोः ॥ तेषु जातेश्च संबन्धः समवायः प्रकीर्तितः । अभावस्तु द्विधा संसर्गान्योन्याभावभेदतः ॥ प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एवच । एवं त्रैविध्यमापन्नः संसर्गाभाव इष्यते ॥ अन्यथासिद्धिशून्यस्य नियता पूर्ववृत्तिता । कारणत्वं भवेत्तस्य त्रैविध्यं परिकीर्तितम् ॥ समवायि निमित्तं चासमवायीति तत्रयम् । निमित्तत्वमधिष्ठानं तद्वीच्छाकृतिलक्षणम् ॥