मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 83, कुल 672 में से
संदर्भ में पढ़ेंवैशेषिकदर्शनम् 41 विद्याऽविद्याविभागोऽपि विशेषो न्यायनिर्णयात् । उपघातात्मकं दुःखं प्रसादजनकं सुखम् ॥ वीचीसंतानवच्छब्दसंतानश्च निरूपितः । सर्वा सर्वगता जातिरिति वैशेषिकं मतम् ॥ 2 एवं सामान्यतः प्रोक्तस्समुद्देशः तथा पुनः । तत्तत्प्रकरणे तत्तद्विशेषः प्रतिपाद्यते ॥ एकं शास्त्रमिति प्रायः बहुभेदं विदुर्बुधाः । सांख्यास्तु निर्विशेषां तां प्रकृतिं कारणं विदुः ॥ भूतानि तु विशेषाः स्युः तस्मादाव्यक्तिकास्तु ते । विशेषेष्वेव विश्रान्ताः ये ते वैशेषिका इति ॥ सामान्यस्य प्रधानस्य प्रतिद्वन्द्वितया स्थिताः । प्राक्पाकजविशेषेण विशिष्टाः परमाणवः ॥ तंतं कार्यं प्रारभन्ते कलमाद्यङ्कुरं स्वयम् । संस्कारः पुंस एवेष्टः प्रोक्षणाभ्युक्षणादिभिः ॥ स्वगुणाः परमाणूनां विशेषाः पाकजा मताः । इत्यौदयनभारत्या सविशेषस्य हेतुताम् ॥ वदतां काणभक्षाणां ख्यातिर्वैशेषिका इति । विशेषाख्यपदार्थस्य स्वीकर्तृत्त्वविशेषतः ॥ वैशेषिका इति ख्यातिः आपातादिति तात्त्विकाः । 3 अत्र तत्त्वावबोधार्थाः पदार्थपरिशुद्धयः । M.R. 6