भारतकोश
मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

पृष्ठ 84, कुल 672 में से

संदर्भ में पढ़ें
पृष्ठ 84

42 मानमेयरहस्यश्लोकवार्तिके

अथाऽत्र प्रथमोऽध्यायः पदार्थोद्देशलक्षणः ॥ अथ द्वितीयोऽध्यायस्स्यात्सामान्यद्रव्यलक्षणः । आत्माऽध्यायस्तृतीयस्स्यात् तुर्यस्स्यान्नित्यलक्षणः कर्माध्यायः पञ्चमस्स्यात् षष्ठस्स्याद्धर्मलक्षणः । अथ स्यात्सप्तमोऽध्यायस्सामान्यगुणलक्षणः ॥ बुद्धयध्यायस्त्वष्टमः स्यात्प्रत्यक्षो नवमो मतः । सुखाध्यायस्तु दशमः इत्यध्याय्यार्थसंग्रहः ॥ या न्यायपरिशुद्धौ श्रीवेदान्ताचार्यसूरिभिः । न्यायवैशेषिकभिदासूक्तिरेषा निशाम्यताम् ॥ पञ्चाध्याय्यामाक्षपाद्यां यत्त्ववार्गङ्गिर्निवेश्य च । कुशकाशालम्बनीत्या कणभक्षकथां पुनः ॥ निरुध्यन्ते नैगमिक्यः पदव्यो विबुधोत्तमैः । स्वयमन्तः प्रहसति नूनं तत्र स गौतमः ॥ इत्येवं शास्त्रसारार्थः प्रमेयांशे समुद्धृतः । प्रमाणादिषु वादेषु प्रमेयाब्धिः पुरः स्थितः ॥ 4 प्रायेण तार्किका एते स्वसिद्धान्तव्यवस्थितिम् इच्छन्ति तर्कपर्यायभूतलाघवयुक्तिभिः ॥ तत्र लाघवयुक्तीनामुदाहरणसूचनम् । तमश्शक्त्योर्नातिरेकः हेम्नस्तैजसता तथा ॥ कालादेश्चातिरिक्तत्वं जीवे देहातिरिक्तता ।