मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
पृष्ठ 87, कुल 672 में से
संदर्भ में पढ़ेंसांख्यदर्शनम् करणानामसामर्थ्यं अष्टाविंशतिधा मतम् । इति षष्टिः पदार्थानां अष्टाभिस्सिद्धिभिस्सह ॥ 3 षष्टितन्त्राभिधः कश्चिदागमः कपिलर्षिणा । प्रणीत इति वेदान्तसूत्रे भास्करभाषितम् ॥ संप्रतीश्वरकृष्णीयकारिका तत्त्वकौमुदी । सांख्यसिद्धान्तमुकुर इति सर्वत्र निश्चितम् ॥ सांख्यप्रवचनं नाम या षडध्याप्यपीक्ष्यते । विज्ञानभिक्षुभाष्यं च तत्प्राच्यैर्नाभिवीक्षितम् ॥ पातञ्जल चतुष्पादं यदेतर्ह्युपलभ्यते । तद्धि सांख्यप्रवचनमिति माधवसंग्रहः ॥ 4 स्वभावेनैव चिच्छक्तिर्विषयप्रवणा यदि । अनिर्मोक्षप्रसंगोऽतः किञ्चित् द्वारमपेक्षते ॥ न चक्षुरादिमात्रं तत् संकल्पानुपपत्तितः । न मनोमात्रविश्रान्तिः स्वप्ने व्याघ्राभिमानतः ॥ नाहंकारे तत्त्वपूर्तिः सुषुप्तौ प्राणदर्शनात् । न बुद्धयन्ता तत्त्वपङ्क्तिः बुद्धेः परिमितत्वतः ॥ 5 कारणं त्वपरिच्छिन्नं प्रधानं प्रकृतिर्हि सा । कार्यहेत्वोरभेदः स्यादसतः संभवः कुतः ॥ असत्त्वे नास्ति संबन्धः कारणैस्सत्त्वसङ्गिभिः ।