मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
महर्षि मनु द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 22, कुल 649 में से
संदर्भ में पढ़ें२० मनुस्मृति । त्यक्तसर्वविकल्पश्च स्वात्मसंस्थं निश्चलं मनः । कृत्वा शान्तो भवेद् योगी दग्धेन्धन इवानलः ॥ एषा चतुर्विंशतिभेदभिन्ना मायापरा प्रकृतिस्तत्समुत्थौ । कामक्रोधौ लोभमोहौ भयं च विषादशोकौ च विकल्पजालम् ॥ धर्माधर्मौ सुखदुःखे च सृष्टि- विनाशपाकौ नरके गतिश्च । वासः स्वर्गे जातयश्चाश्रमाश्च रागद्वेषौ विविधा व्याधयश्च ॥ कौमारतारुण्यजरावियोग- संयोगभोगानशनव्रतानि । इतीदमीहग्हृदयं निधाय तूष्णीमासीनः सुमतिं विविद्धि ॥' और इसी प्रकार श्रीविष्णुधर्म में कहा है— 'अनादिसंबन्धवत्या क्षेत्रज्ञोऽयमविद्यया । युक्तः पश्यति भेदेन ब्रह्मतत्त्वात्मनि स्थितम् ॥ पश्यत्यात्मानमन्यच्च यावद्वै परमात्मनः । तावत्संभ्राम्यते जन्तुर्मोहितो निजकर्मणा ॥ संक्षीणाशेषकर्मा तु परंब्रह्म प्रपश्यति । अभेदेनात्मनः शुद्धं शुद्धत्वादक्षयो भवेत् ॥ अविद्या च क्रियाः सर्वा विद्या ज्ञानं प्रचक्षते । ... जायते जन्तुर्विद्यया च विमुच्यते ॥ द्वैतभ्रान्ति... स्तौ तद्भिन्न उच्यते । परत्र बन्धागारः स्याद्यैव नृप नारकम् ॥