मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
महर्षि मनु द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 570, कुल 649 में से
संदर्भ में पढ़ें४३० मनुस्मृति । प्रायश्चित्त न करनेवाले पातकियों के साथ दान आदि का कोई सम्बन्ध न रक्खे । और प्रायश्चित्त करनेवालों की फिर निन्दा भी न करे । बालहत्यावाले, कृतघ्न, शरणागत को मारने वाले और स्त्रियों की हत्या करनेवाले, प्रायश्चित्त कर भी लें तोभी उनका संसर्ग न करे । जिन द्विजों का शास्त्रोक्त समय में यज्ञोपवीत न हुआ हो उनको तीन प्राजापत्य व्रत कराकर विधि- पूर्वक यज्ञोपवीत करावे ॥ १६०-१६२ ॥ प्रायश्चित्तं चिकीर्षन्ति विकर्मस्था तु ये द्विजाः । ब्राह्मणा च परित्यक्तास्तेषामप्येतदादिशेत् ॥ १६३ ॥ यद्गर्हितेनार्जयन्ति कर्मणा ब्राह्मणा धनम् । तस्योत्सर्गेण शुद्ध्यन्ति जप्येन तपसैव च ॥ १६४ ॥ जपित्वा त्रीणि सावित्र्याः सहस्राणि समाहितः । मासं गोष्ठे पयः पीत्वा मुच्यतेऽसत्प्रतिग्रहात् ॥ १६५ ॥ उपवासकृशं तं तु गोव्रजान्पुनरागतम् । प्रणतं प्रतिपृच्छेयुः साम्यं सौम्येच्छसीति किम् ॥ १६६ ॥ सत्यमुक्त्वा तु विप्रेषु विकिरेद्यवसं गवाम् । गोभिः प्रवर्तिते तीर्थे कुर्युस्तस्य परिग्रहम् ॥ १६७ ॥ व्रात्यानां याजनं कृत्वा परेषामन्त्यकर्म च । अभिचारमहीनं च त्रिभिः कृच्छ्रैर्व्यपोहति ॥ १६८ ॥ शरणागतं परित्यज्य वेदं विप्लाव्या च द्विजः । संवत्सरं यवाहारस्तत्पापमपसेधति ॥ १६६ ॥ श्वशृगालखरैर्दष्टो ग्राम्यैः क्रव्याद्भिरेव च । नराश्वोष्ट्रवराहेश्च प्राणायामेन शुद्ध्यति ॥ २०० ॥