मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
महर्षि मनु द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 91, कुल 649 में से
संदर्भ में पढ़ेंभूमिका । ८६ अवैष्णवस्तु यो विप्रः सर्वकर्मसु गर्हितः । रौरवं नरकं प्राप्य चाण्डालीं योनिमाप्नुयात् ॥ चतुर्वेदी च यो विप्रो वैष्णवत्वं न विन्दति । वेदभारभराक्रान्तः स वै ब्राह्मणगर्दभः ॥ पाखण्डितं च पतितमुन्मत्तं शवहारिणम् । अवैष्णवं द्विजं स्पृष्ट्वा सवासा जलमाविशेत् ॥ चक्रादिचिह्नहीनेन स्थाप्यते यत्र कर्मणि । न सांनिध्यं हरेर्याति क्रियाकोटिशतैरपि ॥ अवैष्णवस्थापितानां प्रतिमानां च वन्दनम् । यः करोति स मूढात्मा रौरवं नरकं व्रजेत् ॥ शूद्रादीनां तु रुद्राद्या अर्चनीयाः प्रकीर्तिताः । रुद्रार्चनं त्रिपुण्ड्रं च यत्पुराणेषु कीर्तितम् ॥ ' ये वचन श्रीविशिष्टाद्वैत-वादियों की वसिष्ठस्मृति में लिखे हैं । और— ' तस्मात्त्रिपुण्ड्रं विप्राणां न धार्यं मुनिसत्तमाः । यद्यज्ञानात्तं विभृयुः पतितास्ते न संशयः ॥ अवैष्णवस्तु यो विप्रश्चण्डालादधमः स्मृतः । न तेन सह भोक्तव्यमापद्यपि कदाचन ॥ ' ये इन लोगों के प्रजापति के वचन हैं । तथा— ' चक्रादिचिह्नरहितं प्राकृतं कलुषान्वितम् । अवैष्णवं तु तं दूरात्–श्वपाकमिव संत्यजेत् ॥ रुद्रार्चनाहू ब्राह्मणस्तु शूद्रेण समतां व्रजेत् । न भस्म धारयेद् विप्रः परमापद्गतोऽपि वा ॥ मोहाद्वै विभृयाद्यस्तु स सुरापो भवेद् ध्रुवम् । '