भारतकोश
मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)

मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)

Manusmriti with Kulluka Bhatta Tika & Hindi Translation

महर्षि मनु द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished649 पृष्ठ

पृष्ठ 98, कुल 649 में से

संदर्भ में पढ़ें
पृष्ठ 98

६६ मनुस्मृति । इदं द्रव्यं मया देवि प्रीत्या निष्पादितं तव । स्वीकुरुष्व महामाये विष्णुपत्नि नमोऽस्तुते ॥ ११२ ॥ धारणार्थं पृथक् कुर्याद् बिल्वपात्रे विशेषतः । श्रिये जातेति वा केन विभृयादिति मे मतम् ॥ ११३ ॥ पुण्ड्रार्थं श्वेतद्रव्यं हि समानीतं गरुत्मता । श्वेतद्वीपान्महाभाग मलयादौ निवेशितम् ॥ ११४ ॥ मलयाद्रिसमुद्भूतां मृदमादाय वैष्णवः । करोति चोर्ध्वपुण्ड्राणि स ऊर्ध्वपदमश्नुते ॥ ११५ ॥ यस्य भाले हरेर्नाम श्वेतद्रव्येण दृश्यते । अन्तकाले मृतो याति श्वेतद्वीपं स पातकी ॥ ११६ ॥ न तथा वल्लभं विष्णोश्चन्दनं कुङ्कुमान्वितम् । यथा मलयकूटस्थं यद् द्रव्यं चन्द्रपाण्डुरम् ॥ ११७ ॥ विष्णोर्ललाटे यः प्रेम्णा करोति तिलकं मुदा । श्वेतद्वीपमृदा नित्यं स प्रियः कमला यथा ॥ ११८ ॥ स्नाने दाने प्रयाणे च श्राद्धे पर्वणि मङ्गले । होमे सुरार्चने पुण्या श्वेतद्वीपामलामही ॥ ११९ ॥ श्रीगोपीचन्दनं नाम पीतद्रव्यं महामते । वैकुण्ठलोकादानीतं द्वारकायां प्रतिष्ठितम् ॥ १२० ॥ सर्वेषां गोपनाद् गोपो वासुदेवोऽहमेव हि । अनन्ताः शक्तयो गोप्यो मदीया एव नारद ॥ १२१ ॥ मदङ्गलेपितं पुण्यं वैकुण्ठे कुङ्कुमान्वितम् । गोपीभिः क्षालितं तस्माद् गोपीचन्दनमुच्यते ॥ १२२ ॥' 'भावयन्त्यपरेभक्ताः पुण्ड्रं तु हरिमन्दिरम् । १ उर्ध्वपुण्ड्र की निरुक्ति ।