मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
महर्षि मनु द्वारा
स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)
पृष्ठ 97, कुल 649 में से
संदर्भ में पढ़ें[Header] भूमिका । ६५
अस्त्रमन्त्रेण संरक्ष्य कवचेनावगुण्ठ्य च । पञ्चामृतेन संस्नाप्य तक्रमध्ये निचिक्षिपेत् ॥ १०१ ॥ भूमिं संलिप्य तद्भाण्डं स्थापयेन्मृण्मयोद्भवम् । रात्रौ संरक्षयेद् दुष्टच्छायातो हृष्टमानसः ॥ १०२ ॥ ग्रन्थीनां तक्षणं कुर्याद् इतिर्णा सूक्तमुच्चरन् । द्वितीये मृण्मये भाण्डे छायाशुष्कं विधाय च ॥ १०३ ॥ प्रातः स्नात्वा शुचिर्भूत्वा नित्यकर्म विधाय च । पात्रमुद्धृत्य हृन्मन्त्रं जप्त्वा कुर्याद् बहिस्ततः ॥ १०४ ॥ भावयेदम्लद्रव्येण शुद्धनिम्बूद्भवेन च । अस्त्रपिष्टेन वा तत्र टङ्कणं पातयेद् बुधः ॥ १०५ ॥ दत्वा चैरण्डपत्राणि मुखे मारुतवर्जिते । प्रदेशे स्थापयेद् यावद्रक्तत्वमुपजायते ॥ १०६ ॥ तावद्विधूपयेन्नित्यं यथा छाया न संक्रमेत् । पश्चात् संशोध्य यत्नेन शिलया चूर्णयेद् दृढम् ॥ १०७ ॥ सुगन्धस्नेहतैलेन भावयेच्चन्द्रकेण वा । देव्याः प्रीतिकरं चूर्णं निष्पन्नं जायते यदि ॥ १०८ ॥ वासयेन्मालतीपुष्पैस्तिलानीव महामनाः । यावत्संपद्यते गन्धः श्रीचूर्णं कमलाप्रियम् ॥ १०६ ॥ निष्पाद्य मङ्गलद्रव्यमणपत्रे च धारयेत् । पूजयेद् विविधोपायैस्तथा नीराजयेन्निशि ॥ ११० ॥ द्वादश्यां जन्मसमये श्रीदेव्याः प्रयतो नरः । संपूज्य परमां देवीं सर्वावरणसंयुताम् ॥ १११ ॥
१ साधन प्रकार ।