भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 103, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 103
६४मेघदूतम्

यः पण्यस्त्री रतिपरिमलोद्गारिभिर्नागराणा-
मुद्दामानि प्रथयति शिलावेश्मभिर्यौ वनानि ॥ २६ ॥

अन्वयः—तत्र विश्रामहेतोः प्रौढपुष्पैः कदम्बैः त्वत्संपर्कात् पुलकितमिव नीचैराख्यम् गिरिम् अधिवसेः । तः पण्यस्त्रीरतिपरिमलोद्गारिभिः शिलावेश्मभिः नागराणाम् उद्दामानि यौवनानि प्रथयति ।

व्याख्या—( हे मेघ ! ) तत्र = विदिशायाम्, विश्रामहेतोः = श्रमापनोदनाय, प्रौढपुष्पैः = सुविकसितकुसुमैः, कदम्बैः = नीपैः, त्वत्संपर्कात् = भवत्साहचर्यात्, पुलकितमिव = सलोमहर्षमिव, रोमाञ्चमिवेत्यर्थः, नीचैराख्यम् = नीचैः नामानम्, गिरिम् = पर्वतम्, अधिवसेः = अधिवासं कुर्याः । यः = नीचैः पर्वतः, पण्यस्त्रीरतिपरिमलोद्गारिभिः = वेश्याकामक्रीडासौरभाविष्कुर्वद्भिः, शिलावेश्मभिः = पाषाणसदनैः कन्दराभिरित्यर्थः, नागराणाम् = चतुरनगरवासिनाम्, उद्दामानि = निर्बन्धानि, उत्कटानीति भावः, यौवनानि = तारुण्यानि, प्रथयति = कथयति ।

शब्दार्थः—तत्र = उस विदिशा में, विश्रामहेतोः = थकावट दूर करने के लिए, प्रौढपुष्पैः = अच्छी तरह खिले हुए फूलों वाले, कदम्बैः = कदम्ब वृक्षों से, त्वत्संपर्कात् = तुम्हारे संपर्क से, पुलकितमिव = रोमाञ्चित हुए की तरह, नीचैराख्यम् = "नीचैः" इस नाम के, गिरिम् = पर्वत, पण्यस्त्रीरतिपरिमलोद्गारिभिः = वेश्यायाओं की काम-क्रीडा में ( उपयुक्त ) सुगन्ध को व्यक्त करने वाले, शिलावेश्मभिः = कन्दराओं के द्वारा, नागराणाम् = नगर निवासियों के, उद्दामानि = निबंध ( उत्कट ), यौवनानि = यौवन ( जवानी ) को, प्रथयति = कहता है ( प्रकट करता है ) ।

भावार्थः—हे मेघ ! विदिशायां श्रमापनोदनाय कुसुमित-कदम्बवृक्षैः, रोमाञ्चयुक्तमिव नीचैर्नामकं पर्वतमधिवासं कुर्याः । यः पर्वतः वेश्यारम्भक्रीडा-प्रयुक्त-सुगन्धिताभिः कन्दराभिर्नागराणामुत्कटयौवनानि व्यनक्ति ।

हिन्दी—हे मेघ ! विदिशा में विश्राम करने के लिए पूर्णविकसितकदम्ब-पुष्पों से मानो तुम्हारे सम्पर्क से रोमाञ्च के समान "नीचैः" नामक पर्वत