मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 119, कुल 335 में से
संदर्भ में पढ़ें८० मेघदूतम्
के बाद पुनः प्रवृत्ति के लिए थकी-मांदी नायिका के परिश्रम को चिकनी-चुपड़ी बातों से नायक दूर करता है ।
अलंकार—यहाँ पूर्णोपमा नामक अलंकार है ॥ ३१ ॥
'हारांस्तारांस्तरलगुटिकान्कोटिशः शंखशुक्तीः
शष्प—श्यामान्मर कतमणीनुन्मयूख—प्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणाञ्च भङ्गान्
संलक्ष्यन्ते सलिलनिधय—स्तोयमात्रावशेषाः ॥३२॥
अन्वयः—यस्यां कोटिशो विपणि-रचितान् तारान् तरल-गुटिकान् हारान् शंखशुक्तीः शष्पश्यामान् उन्मयूखप्ररोहान् मरकतमणीन् विद्रुमाणां भङ्गान् च दृष्ट्वा सलिल-निधयः तोयमात्रावशेषाः संलक्ष्यन्ते ।
व्याख्या—यस्याम्=विशालायाम्, कोटिशः=असंख्यान्, विपणिरचितान्=पण्येषु विक्रयार्थं प्रसारितान्; “अयं शब्दः विशेषणत्वेन सर्वत्र यथालिङ्गमन्वीयते देहलीदीपन्यायेन” न्याय टिप्पण्यां स्पष्टयिष्यते ।” तारान्=विमलान् तरलगुटिकान्=हारमध्यमहारत्नान्; हारान्=मुक्तास्रजः, शंखशुक्तीः =कम्बुमुक्तास्फोटान्; शष्पश्यामान्=नव·तृणमिव हरितान्, उन्मयूख प्ररोहान्=उद्गतांकुरान्, मरकतमणीन्=मरकताख्य-मणि-विशेषान् गारुडरत्नानीति यावत्, विद्रुमाणाम्=प्रवालानाम्, भङ्गान् = शकलान्, च = तथा, दृष्ट्वा =अवलोक्य, सलिलनिधयः==रत्नकराः समुद्रा इत्यर्थः । तोयमात्रावशेषाः=केवल·जलावशिष्टाः, संलक्ष्यन्ते =अनुमीयन्ते । पण्येषु प्रसारितान् तादृशान् रत्नसमूहान् दृष्ट्वा जनाः समुद्रः रत्नहीनः जलमात्रावशिष्ट इत्यनुमीयन्ते ।
शब्दार्थः—यस्याम्=जिस उज्जायिनी नगरी में, कोटिशः=असंख्य,विपणिरचितान्=(बेचने के लिए) बाजारों में फैलाये गये, तारान्=विशुद्ध, तरलगुटिकान्=जिनमें मध्यमणीभूत महारत्न थे, (ऐसे ) हारान्=मोतियों की मालाओं को, शंखशुक्तीः =शंखों को एवं सीपियों को, शष्पश्यामान् =नयी घास की तरह गाढ़े हरे रंग की, उन्मयूख-प्ररोहान्=अंकुरों की तरह जिनकी किरणें ऊपर की