भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 119, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 119

८० मेघदूतम्

के बाद पुनः प्रवृत्ति के लिए थकी-मांदी नायिका के परिश्रम को चिकनी-चुपड़ी बातों से नायक दूर करता है ।

अलंकार—यहाँ पूर्णोपमा नामक अलंकार है ॥ ३१ ॥

'हारांस्तारांस्तरलगुटिकान्कोटिशः शंखशुक्तीः
शष्प—श्यामान्मर कतमणीनुन्मयूख—प्ररोहान् ।
दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणाञ्च भङ्गान्
संलक्ष्यन्ते सलिलनिधय—स्तोयमात्रावशेषाः ॥३२॥

अन्वयः—यस्यां कोटिशो विपणि-रचितान् तारान् तरल-गुटिकान् हारान् शंखशुक्तीः शष्पश्यामान् उन्मयूखप्ररोहान् मरकतमणीन् विद्रुमाणां भङ्गान् च दृष्ट्वा सलिल-निधयः तोयमात्रावशेषाः संलक्ष्यन्ते ।

व्याख्या—यस्याम्=विशालायाम्, कोटिशः=असंख्यान्, विपणिरचितान्=पण्येषु विक्रयार्थं प्रसारितान्; “अयं शब्दः विशेषणत्वेन सर्वत्र यथालिङ्गमन्वीयते देहलीदीपन्यायेन” न्याय टिप्पण्यां स्पष्टयिष्यते ।” तारान्=विमलान् तरलगुटिकान्=हारमध्यमहारत्नान्; हारान्=मुक्तास्रजः, शंखशुक्तीः =कम्बुमुक्तास्फोटान्; शष्पश्यामान्=नव·तृणमिव हरितान्, उन्मयूख प्ररोहान्=उद्गतांकुरान्, मरकतमणीन्=मरकताख्य-मणि-विशेषान् गारुडरत्नानीति यावत्, विद्रुमाणाम्=प्रवालानाम्, भङ्गान् = शकलान्, च = तथा, दृष्ट्वा =अवलोक्य, सलिलनिधयः==रत्नकराः समुद्रा इत्यर्थः । तोयमात्रावशेषाः=केवल·जलावशिष्टाः, संलक्ष्यन्ते =अनुमीयन्ते । पण्येषु प्रसारितान् तादृशान् रत्नसमूहान् दृष्ट्वा जनाः समुद्रः रत्नहीनः जलमात्रावशिष्ट इत्यनुमीयन्ते ।

शब्दार्थः—यस्याम्=जिस उज्जायिनी नगरी में, कोटिशः=असंख्य,विपणिरचितान्=(बेचने के लिए) बाजारों में फैलाये गये, तारान्=विशुद्ध, तरलगुटिकान्=जिनमें मध्यमणीभूत महारत्न थे, (ऐसे ) हारान्=मोतियों की मालाओं को, शंखशुक्तीः =शंखों को एवं सीपियों को, शष्पश्यामान् =नयी घास की तरह गाढ़े हरे रंग की, उन्मयूख-प्ररोहान्=अंकुरों की तरह जिनकी किरणें ऊपर की