मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 121, कुल 335 में से
संदर्भ में पढ़ें| ८२ | मेघदूतम् |
|---|
( प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे
हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः ।
अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा-
दित्यगन्तून् रमयति जनौ यत्र बन्धूनभिज्ञः ॥ )
अन्वयः — अत्र वत्सराजः प्रतोद्यतस्य प्रियदुहितरम् जह्रे । अत्र तस्यैव राज्ञः हैमम् तालद्रुमवनम् अभूत् अत्र किल नलगिरिः दर्पात् स्तम्भम् उत्पाट्य उद्भ्रान्तः यत्र इति अभिज्ञः जनः आगन्तून् बन्धून् रमयति ।
व्याख्या — अत्र = उज्जयिन्याम्, वत्सराजः = वत्सदेशाधिपः उदयन इति भावः, प्रद्योतस्य = प्रद्योताभिधेयस्य, उज्जयिनीनरेशस्येति भावः, प्रियदुहितरम् = प्रियां पुत्रीम्, वासवदत्तामिति भावः, जह्रे = अपहृतवान् । अत्र = उज्जयिन्याम्, तस्यैव = प्रद्योतस्यैव, राज्ञः = नरेशस्य, हैमम् = सुवर्णमयम्, तालद्रुमवनम् = तालवृक्षकाननम्, अभूत् = आसीत् । अत्र = उज्जयिन्याम्, नलगिरिः = नलगिरि-नामको हस्ती, दर्पात् = मदात्, स्तम्भम् = स्थाणुम्, उत्पाट्य = उद्घृत्य, उद्भ्रान्तः = उद्भ्रमणं चकार, इति = अनेन प्रकारेण, अभिज्ञः = पूर्वोक्तकथा-कोविदः, जनः = नरः, आगन्तून् = प्राघुणिकान्, अन्यस्मात् देशादागतान्, बन्धून् = बान्धवान्, रमयति = विनोदयति ।
शब्दार्थ — अत्र = उज्जयिनी, में वत्सराजः = वत्सदेश के राजा (उदयन) प्रद्योतस्य = प्रद्योतनामक, उज्जयिनी नरेश की, प्रियदुहितरम् = प्रिय पुत्रीका ( वासवदत्ता का ), जह्रे = अपहरण किया था । अत्र = इसी उज्जयिनी में, तस्यैव = प्रद्योत, राज्ञः = नरेश का ही, हैमम् = स्वर्णमय, तालद्रुमवनम् = तालवृक्षों का वन, अभूत् = था । अत्र = यहाँ, किल = निश्चय ही, नलगिरिः = नलगिरि नामक राजा का हाथी, दर्पात् = मदमत्त होकर, स्तम्भम् = खूंटे को, उत्पाट्य = उखाड़कर, उद्भ्रान्तः = घूमा करता था, यत्र = जहाँ, इति = इस प्रकार से अभिज्ञः = उदयन-वासवदत्तादि की कथाओं के जानकार, जनः = लोग, आगन्तून् = दूसरे देशों से आये हुए, बन्धून् = बान्धवों का, रमयति = ( मन ) बहलाया करते हैं ।