भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 127, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 127

८८ मेघदूतम्

धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या-
स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३ ॥

अन्वयः—भर्तुः कण्ठच्छविः इति गणैः सादरं वीक्ष्यमाणः कुवलयरजोगन्धिभिः तोयक्रीडानिरतयुवतिस्नानतिक्तैः गन्धवत्याः मरुद्भिः धूतोद्यानं त्रिभुवनगुरोः चण्डीश्वरस्य पुण्यं धाम यायाः ।

व्याख्या—भर्तुः = स्वामिनो नीलकण्ठस्य, कण्ठच्छविः = गलशोभा, इति = अस्माद्धेतोः, गणैः = दूतैः, सादरम् = सम्मानपूर्वकम्, वीक्ष्यमाणः = अवलोक्यमानः ( सन् ), कुवलयरजोगन्धिभिः = पद्मपरागसुगन्धितैः, तोयक्रीडानिरतयुवतिस्नानतिक्तैः = जलक्रीडातत्परवनिताऽवगाहनसुगन्धितैः, गन्धवत्याः = एतन्नामिकायाः सरितः, मरुद्भिः = वायुभिः, धूतोद्यानम् = प्रकम्पिताऽऽरामम्, त्रिभुवनगुरोः = त्रैलोक्यनाथस्य, चण्डीश्वरस्य = भवानीपतेः, पुण्यम् = पवित्रम्, धाम = स्थानम्, महाकालमिति भावः, यायाः = गच्छेः ।

शब्दार्थः—भर्तुः = स्वामी नीलकण्ठ के, कण्ठच्छविः = गले की शोभा के समान (तुम हो), इति = इस कारण, गणैः = शिवजी के गणों द्वारा, सादरम् = ससम्मान, वीक्ष्यमाणः = देखा जाता हुआ, कुवलयरजोगन्धिभिः = कमल के पराग से सुगन्धित, तोयक्रीडानिरतयुवतिस्नानतिक्तैः = जलक्रीडा में आसक्त युवतियों के स्नान से सुगन्धित, गन्धवत्याः = गन्धवती नाम की नदी के, मरुद्भिः = वायु के द्वारा, धूतोद्यानम् = जहाँ का बगीचा कँपाया गया है, त्रिभुवनगुरोः = त्रैलोक्यनाथ, चण्डीश्वरस्य = पार्वतीपति ( शिवजी के उस ) पुण्यम् = पवित्र, धाम = स्थान को ( महाकाल को ), यायाः = जाना ।

भावार्थः—हे मेघ ! शिवस्य गलशोभामिव त्वां प्रमथाः सादरमवलोकयिष्यन्ति त्वञ्चोज्जयिन्यां पद्मपरिमलसुगन्धितैः जलक्रीडाऽऽसक्तकामिनीस्नान-( चन्दनादिभिः ) सुरभितैः गन्धवत्याः नद्याः वायुभिः कम्पिताऽऽरामं भवानीभर्तुः महाकालेश्वरस्य पवित्रं धाम गच्छ ।

हिन्दी—हे मेघ ! शिवजी के गले की शोभा के समान तुम्हें शिवजी के गण सादर देखेंगे । तुम भी वहाँ कमल के पराग से सुगन्धित जलक्रीड़ा में लगी