भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 199, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 199

उत्तरमेघः

विद्युत्वन्तं ललित-वनिताः सेन्द्रचापं सचित्राः
संगीताय प्रहतमुरजाः स्निग्धगम्भीर-घोषम् ।
अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः
प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ १ ॥

अन्वयः—यत्र ललितवनिताः सचित्राः संगीताय प्रहतमुरजाः मणिमयभुवः अभ्रंलिहाग्राः प्रासादाः विद्युत्वन्तम् सेन्द्रचापम् स्निग्धगम्भीरघोषम् अन्तस्तोयम् तुङ्गम् त्वाम् तैः तैः विशेषैः तुलयितुम् अलम् ।

व्याख्या—पूर्वमेघे यक्षः अलकापरिचयं दत्वेदानीं स्वभवनाऽभिज्ञानं ददाति—यत्र=अलकायाम्, ललित-वनिताः=रमणीयललनाः, सचित्राः=आलेख्यसहिताः, संगीताय=नृत्यगीतवाद्याय, प्रहतमुरजाः=प्रताडितमृदङ्गाः, मणिमयभुवः=रत्ननिर्मितभूप्रदेशाः, अभ्रंलिहाग्राः=अभ्रङ्कशाग्राः, अत्युच्छ्रिता इति भावाः, प्रासादाः=देवालयाः, विद्युत्वन्तम्=सचपलम्, सेन्द्रचापम्=इन्द्रधनुःसहितम्, तुङ्गम्=उन्नतम्, त्वाम्=मेघम्, तैः तैः=पूर्वोक्तप्रकारैः, विशेषैः=ललितवनितादिभिः, तुलयितुम्=समानताङ्कर्तुम्, अलम्=पर्याप्ताः ।

शब्दार्थः—पूर्वमेघ में यक्ष अलकापुरी का परिचय देकर अब यहाँ अपने भवन का परिचय देने की भूमिका प्रस्तुत करता है—यत्र=जिस अलकापुरी में ललितवनिताः=सुन्दरस्त्रियाँ, सचित्राः=चित्रशालाएँ, संगीताय प्रहतमुरजाः=संगीत के लिए बजाये गये मृदङ्ग, मणिमयभुवः=रत्न से निर्मित पृथ्वी (फर्श), अभ्रंलिहाग्राः=गगनचुम्बी, प्रासादाः=देवालय, विद्युत्वन्तम्=बिजली से युक्त; सेन्द्रचापम्=इन्द्रधनुष से युक्त, स्निग्धगम्भीरघोषम्=मधुर एवं गम्भीर गर्जनों से युक्त, अन्तस्तोयम्=अन्दर जल से पूर्ण, तुङ्गम्=ऊँचे, त्वाम्=तुम्हारी, तैस्तैः=पूर्वोक्त प्रकारों से, विशेषैः=सुन्दरस्त्रियादि धर्मों से, तुलयितुम्=समानता करने में, अलम्=समर्थ हैं ।