भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 236, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 236

उत्तरमेघः १९५

रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥१५॥

अन्वयः—अत्र, कुरबकवृतेः, माधवीमण्डपस्य, प्रत्यासन्नौ, चलकिसलयः
रक्ताशोकः, कान्तः, केसरश्च, एकः, मया, सह, तव, सख्याः, वामपादाभिलाषी,
अन्यः, दोहदच्छद्मना, अस्याः, वदनमदिराम्, काङ्क्षति ॥ १५ ॥

व्याख्या—अत्र = क्रीडाशैले, कुरबकवृतेः = कुरबकपरिवेष्टनस्य, माधवी-
मण्डपस्य = अतिमुक्तनिकुञ्जस्य, प्रत्यासन्नौ = समीपस्थौ, चलकिसलयः = चञ्चल-
नूतनपल्लवः, रक्ताशोकः = अशोकवृक्षविशेषः, कान्तः = सुन्दरः, केसरश्च =
बकुलवृक्षश्च ( स्तः )। एकः = तयोरन्यतरः, मया = यक्षेण, सह = साकम्,
तव = मेघस्य, सख्याः = सखिप्रियायाः, मत्प्रियायाः इति भावः । वामपादा-
भिलाषी = सव्येतरचरण-प्रहारच्छुकः, अन्यः = बकुलवृक्षः, दोहदच्छद्मना =
वृक्षादिसंस्कारव्याजेन, अस्याः = त्वत्सख्याः, वदनमदिराम् = मुखमद्यम्,
काङ्क्षति = अभिलषति ॥

शब्दार्थः—अत्र = उस क्रीडा-पर्वत पर, कुरबकवृतेः = कुरबक के घेरा
वाले, माधवीमण्डपस्य = माधवी ( अतिमुक्ता ) के निकुञ्ज के, प्रत्यासन्नौ =
समीप में, चलकिसलयः = चञ्चल किसलय वाला, रक्ताशोकः = लाल अशोक
का वृक्ष, कान्तः = सुन्दर, केसरश्च = बकुलवृक्ष है । एकः = उन दोनों में
पहला अशोकवृक्ष, मया सह = मेरे साथ, तव = तुम्हारी, सख्या = सखी के
( मेरी प्रिया का ), वामपादाभिलाषी = बायें चरण के प्रहार का इच्छुक (है),
अन्यः = और दूसरा बकुलवृक्ष, दोहदच्छद्मना = दोहद-संस्कार के बहाने
अस्याः = उस तुम्हारी सखी के, वदनमदिराम् = मुँह की मदिरा की, काङ्क्षति =
चाहता है ॥