मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 236, कुल 335 में से
संदर्भ में पढ़ेंउत्तरमेघः १९५
रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः
प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥१५॥
अन्वयः—अत्र, कुरबकवृतेः, माधवीमण्डपस्य, प्रत्यासन्नौ, चलकिसलयः
रक्ताशोकः, कान्तः, केसरश्च, एकः, मया, सह, तव, सख्याः, वामपादाभिलाषी,
अन्यः, दोहदच्छद्मना, अस्याः, वदनमदिराम्, काङ्क्षति ॥ १५ ॥
व्याख्या—अत्र = क्रीडाशैले, कुरबकवृतेः = कुरबकपरिवेष्टनस्य, माधवी-
मण्डपस्य = अतिमुक्तनिकुञ्जस्य, प्रत्यासन्नौ = समीपस्थौ, चलकिसलयः = चञ्चल-
नूतनपल्लवः, रक्ताशोकः = अशोकवृक्षविशेषः, कान्तः = सुन्दरः, केसरश्च =
बकुलवृक्षश्च ( स्तः )। एकः = तयोरन्यतरः, मया = यक्षेण, सह = साकम्,
तव = मेघस्य, सख्याः = सखिप्रियायाः, मत्प्रियायाः इति भावः । वामपादा-
भिलाषी = सव्येतरचरण-प्रहारच्छुकः, अन्यः = बकुलवृक्षः, दोहदच्छद्मना =
वृक्षादिसंस्कारव्याजेन, अस्याः = त्वत्सख्याः, वदनमदिराम् = मुखमद्यम्,
काङ्क्षति = अभिलषति ॥
शब्दार्थः—अत्र = उस क्रीडा-पर्वत पर, कुरबकवृतेः = कुरबक के घेरा
वाले, माधवीमण्डपस्य = माधवी ( अतिमुक्ता ) के निकुञ्ज के, प्रत्यासन्नौ =
समीप में, चलकिसलयः = चञ्चल किसलय वाला, रक्ताशोकः = लाल अशोक
का वृक्ष, कान्तः = सुन्दर, केसरश्च = बकुलवृक्ष है । एकः = उन दोनों में
पहला अशोकवृक्ष, मया सह = मेरे साथ, तव = तुम्हारी, सख्या = सखी के
( मेरी प्रिया का ), वामपादाभिलाषी = बायें चरण के प्रहार का इच्छुक (है),
अन्यः = और दूसरा बकुलवृक्ष, दोहदच्छद्मना = दोहद-संस्कार के बहाने
अस्याः = उस तुम्हारी सखी के, वदनमदिराम् = मुँह की मदिरा की, काङ्क्षति =
चाहता है ॥