मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 49, कुल 335 में से
संदर्भ में पढ़ें| १० | मेघदूतम् |
|---|
**अलंकार—**यहाँ पर मेघ की उपमा हाथी से दी गयी है, ‘इव’ आदि उपमावाचक शब्द का लोप होने से ‘लुप्तोपमा’ अलंकार है ॥ २ ॥
तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो-
रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथा-वृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूर-संस्थे ॥ ३ ॥
**अन्वयः—**राजराजस्य अनुचरः अन्तर्बाष्पः (सन्) कौतुकाधानहेतोः तस्य पुरः कथमपि स्थित्वा चिरं दध्यौ मेघालोके सुखिनः अपि चेतः अन्यथावृत्ति भवति कण्ठाश्लेषप्रणयिनि जने दूरसंस्थे ( सति ) किं पुनः ।
**व्याख्या—**राजराजस्य = कुबेरस्य, अनुचरः = सेवकः स यक्ष इत्यर्थः, अन्तर्बाष्पः = अवरुद्धाक्षिजलः ( सन् ); कौतुकाधानहेतोः = उत्कण्ठोत्पत्तिकारणस्य, तस्य = मेघस्य, पुरः = सम्मुखे, कथमपि = येन केनाऽपि प्रकारेण, बहुप्रयासानन्तरमिति भावः । स्थित्वा = आत्मानं स्थिरीकृत्य, चिरं = बहुसमयपर्यन्तम्, दध्यौ = ध्यानं कृतवान्, निजवल्लभां चिन्तयामासेति भावः । स कथं चिरकालं प्रियां दध्यौ इति प्रश्नं कविः स्वयं समाधत्ते मेघालोके = जलदविलोकिने, सुखिनः अपि = प्रियापार्श्वस्थस्यापि, चेतः = चित्तम्, अन्यथावृत्ति = विचलितप्राय इव ( झङ्कृत इव ) भवति = जायते । कण्ठाश्लेषप्रणयिनि = गलाऽऽलिङ्गनाभिलाषिणि, जने = प्रियारूपे जने, दूरसंस्थे = असमीपस्थे ( सति ), किं पुनः = का वार्ता ( विरहिणो जनस्य ) ।
**शब्दार्थ—**राजराजस्य = कुबेर के, अनुचरः = सेवक ने, अन्तर्बाष्पः = आँखों के अन्दर ही अश्रु को रोके हुए, कौतुकाधानहेतोः = उत्कण्ठा होने के कारणीभूत, मेघस्य = मेघके, पुरः = सामने, कथमपि = किसी तरह (बहुत प्रयास करने के बाद), स्थित्वा = बैठकर, चिरम् = बहुत देर तक, दध्यौ = ध्यान किया, अर्थात् अपनी प्रिया का स्मरण किया । उसने प्रिया का स्मरण क्यों किया, उसमें कारण बताते हैं—मेघालोके = बादल के दीख जाने पर, सुखिनः