मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 6, कुल 335 में से
संदर्भ में पढ़ेंसमर्पणम्
स्निग्धामुदारमधुरां विलसत्प्रसादां
विश्रामधामपुलिनां विशदार्थधाराम् ।
हंसावगाहनरसां नितरामगाधा—
माराधयामि कविराजसरस्वतीं ताम् ॥ १ ॥
श्री-कालिदासरसपिच्छिलकाव्यमार्गे
प्रस्थानकौतुकमतीव शिशुत्वमेव ।
जानन्नपि स्फुटमिदं पुनरेव गन्तु—
मालम्ब्य सद्गुरुकराङ्गुलिमुद्यतोऽस्मि ॥ २ ॥
स्वाभाविकं स्खलनमेव पदे पदे मे
सम्भाव्यते यदपि दुर्जनहासहेतुः ।
स्मृत्वा सतां परमपारकृपामकम्पा—
माश्वासनादकरवं ललितार्थटीकाम् ॥ ३ ॥
श्रोतुर्विमुग्धमतिविभ्रममारहन्तीं
चित्रां पटीमिव नटीमिव नाटकस्य ।
वाचं निवेदयति सो विपुलार्थलक्ष्मीं
स्मेराननं तमनिशं गुरुमानतोऽस्मि ॥ ४ ॥
कीर्तिर्धुरि-स्फुरति नामनि यस्य शश्व—
दानन्द एव चरमावयवं बिभर्ति ।
तस्मै सुधीन्द्रतिलकाय सुदेशिकाय
टीकामिमामुपहरत्यथ वैद्यनाथः ॥ ५ ॥
२ मे० दू० भू०