मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
DevanagariHindipublished335 पृष्ठ
पृष्ठ 7, कुल 335 में से
संदर्भ में पढ़ेंपृष्ठ 7
—: व्याख्यातृमङ्गलाचरणम् :—
शृङ्गार-दैवतमनन्तगुणाभिरामं
रामानुजं हृदयरञ्जनमञ्जनाभम् ।
नेत्रामृतं निरुपमं वृषभानुजाया
ध्वान्तापहं किमपि धाम नमामि कृष्णम् ॥ १ ॥
विद्याविनोदरसिकं मधुरं निसर्गा-
दन्तेवसत्स्वतुलवत्सलमेव सत्सु ।
आन्वीक्षिकीहृदयवल्लभमार्यकीर्त्या-
नन्दाभिधं गुरुवरं प्रणमामि भक्त्या ॥ २ ॥
यस्मिन् प्रसीदति, निषीदति भाग्यलक्ष्मी-
रुत्सृज्य दैवहतकं गमनोत्सुकापि ।
जागर्ति सुप्तनियतिः शरणागतानां
तं पूज्यपूजितगुरुं शरणं प्रपद्ये ॥ ३ ॥
श्रीमत्कवीन्द्रकलकीर्तिकृताग्रदूतं
शश्वद्रसोर्मिशतमेदुरमेघदूतम् ।
व्याख्यातुमाश्रयति सद्गुरुदत्तविद्यां
हृद्यामवद्यरहितामिह वैद्यनाथः ॥ ४ ॥