मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 61, कुल 335 में से
संदर्भ में पढ़ें२२ मेघदूतम्
गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम्
बाह्योद्यान-स्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥७॥
अन्वयः—हे पयोद ! त्वं सन्तप्तानां शरणम् असि, तत् धनपतिक्रोध-विश्लेषितस्य मे सन्देशं प्रियाया हर । बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या अलका नाम यक्षेश्वराणां वसतिः ते गन्तव्या ।
व्याख्या—हे पयोद ! = हे जलद ! त्वम् सन्तप्तानाम् = आतपेन विरहेण वा पीडितानाम्, शरणं = रक्षकः, असि = वर्तसे, आतपपीडितं जलदानेन, विरहपीडितं स्वस्थान-प्रेरणया वा रक्ष्यसे इति भावः । तत् = तस्माद्धेतोः, रक्षकत्वादिति भावः । धनपतिक्रोधविश्लेषितस्य = कुबेरकोपवियुक्तस्य, मे = मम यक्षस्य, सन्देशम् = वार्तां, प्रियायाः = प्रेयस्याः, पार्श्वम् इति शेषः । हर = नय । सा मत्प्रिया कुत्र वर्तते, तस्य स्थानस्य किन्नामेतिजिज्ञासायामाह । बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या = बाह्योद्याने = बहिरारामे, स्थितस्य = वर्तमानस्य, हरस्य = शम्भोः, शिरसि = मस्तके या चन्द्रिका = ज्योत्स्ना, तया धौतहर्म्या = प्रक्षालिताट्टालिका अलका, नाम = एतन्नामिका यक्षेश्वराणाम् = गुह्यकाधिपतीनाम्, वसतिः = स्थानम्, ते = मेघस्य, गन्तव्या = यातव्या ।
शब्दार्थः—हे पयोद ! = हे मेघ ! त्वम् = तुम, सन्तप्तानाम् = धूप से पीड़ित अथवा वियोग से पीड़ित जनों के, शरणम् = रक्षक, असि = हो । तत् = तुम रक्षक हो इसलिए, धनपतिक्रोधविश्लेषितस्य = कुबेर के क्रोध के कारण अपनी प्रिया से वियुक्त, मे = मेरा ( यक्ष का ), सन्देशम् = सन्देश, प्रियायाः = प्रिया के पास, हर = पहुँचा दो । यदि तुम कहो कि, मेरी प्रिया कहाँ रहती है, उस स्थान का क्या नाम है तो सुनो, बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या = नगर से बाहर के उद्यान में विद्यमान शिव जी के मस्तक पर स्थित चन्द्रमा की ज्योत्स्ना से जहाँ के महल धुल रहे हैं, अलका नाम = अलका नाम की यक्षेश्वराणाम् = कुबेर की ( वही ) वसतिः = नगरी, ते = तुम्हें, गन्तव्या = जाना है ।