भारतकोश
मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)

Meghadutam of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)

DevanagariHindipublished335 पृष्ठ

पृष्ठ 61, कुल 335 में से

संदर्भ में पढ़ें
पृष्ठ 61

२२ मेघदूतम्

गन्तव्या ते वसतिरलका नाम यक्षेश्वराणाम्
बाह्योद्यान-स्थितहरशिरश्चन्द्रिकाधौतहर्म्या ॥७॥

अन्वयः—हे पयोद ! त्वं सन्तप्तानां शरणम् असि, तत् धनपतिक्रोध-विश्लेषितस्य मे सन्देशं प्रियाया हर । बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या अलका नाम यक्षेश्वराणां वसतिः ते गन्तव्या ।

व्याख्या—हे पयोद ! = हे जलद ! त्वम् सन्तप्तानाम् = आतपेन विरहेण वा पीडितानाम्, शरणं = रक्षकः, असि = वर्तसे, आतपपीडितं जलदानेन, विरहपीडितं स्वस्थान-प्रेरणया वा रक्ष्यसे इति भावः । तत् = तस्माद्धेतोः, रक्षकत्वादिति भावः । धनपतिक्रोधविश्लेषितस्य = कुबेरकोपवियुक्तस्य, मे = मम यक्षस्य, सन्देशम् = वार्तां, प्रियायाः = प्रेयस्याः, पार्श्वम् इति शेषः । हर = नय । सा मत्प्रिया कुत्र वर्तते, तस्य स्थानस्य किन्नामेतिजिज्ञासायामाह । बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या = बाह्योद्याने = बहिरारामे, स्थितस्य = वर्तमानस्य, हरस्य = शम्भोः, शिरसि = मस्तके या चन्द्रिका = ज्योत्स्ना, तया धौतहर्म्या = प्रक्षालिताट्टालिका अलका, नाम = एतन्नामिका यक्षेश्वराणाम् = गुह्यकाधिपतीनाम्, वसतिः = स्थानम्, ते = मेघस्य, गन्तव्या = यातव्या ।

शब्दार्थः—हे पयोद ! = हे मेघ ! त्वम् = तुम, सन्तप्तानाम् = धूप से पीड़ित अथवा वियोग से पीड़ित जनों के, शरणम् = रक्षक, असि = हो । तत् = तुम रक्षक हो इसलिए, धनपतिक्रोधविश्लेषितस्य = कुबेर के क्रोध के कारण अपनी प्रिया से वियुक्त, मे = मेरा ( यक्ष का ), सन्देशम् = सन्देश, प्रियायाः = प्रिया के पास, हर = पहुँचा दो । यदि तुम कहो कि, मेरी प्रिया कहाँ रहती है, उस स्थान का क्या नाम है तो सुनो, बाह्योद्यानस्थितहरशिरश्चन्द्रिकाधौतहर्म्या = नगर से बाहर के उद्यान में विद्यमान शिव जी के मस्तक पर स्थित चन्द्रमा की ज्योत्स्ना से जहाँ के महल धुल रहे हैं, अलका नाम = अलका नाम की यक्षेश्वराणाम् = कुबेर की ( वही ) वसतिः = नगरी, ते = तुम्हें, गन्तव्या = जाना है ।