मेघदूतम् (वैद्यनाथ झा शास्त्री हिन्दी टीका सहित)
Meghadutam of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Meghadutam with Sanskrit text and Hindi Commentary by Pt. Vaidyanath Jha Shastri (उद्गम)
पृष्ठ 69, कुल 335 में से
संदर्भ में पढ़ें३० मेघदूतम्
याप्यवासरसंख्यानाऽसक्ताम्: अव्यापन्नाम् = जीविताम् ( अनेन स न मृता इति द्रढयति यक्षः) एवञ्च एकपत्नीम् = पतिव्रताम्, ( इत्यनेन तस्या व्रतास्खलनत्वञ्च प्रतिपादयति ) शापान्ते स आगमिष्यतीति पातिव्रत्यपूर्वकं साऽवश्यं प्राणान् धारयति इति भावः । भ्रातृजायाम् = बन्धुप्रियाम्, ताम् = मत्प्रियाम्, अविहतगतिः = अव्याहतगमनः ( सन् त्वम् ) अवश्यम् = नूनम्, द्रक्ष्यसि = अवलोकयिष्यसि । आशाबन्धः = तृष्णाबन्धनम्, प्रणयि = प्रेमपूर्णम्, कुसुमसदृशम् = पुष्पवन्मृदुभवतीति भावः । अत एव विप्रयोगे = विरहे प्रेमिणः इति शेषः । सद्यःपाति = तत्क्षणविनाशशीलम्, अङ्गनानाम् = वधूनाम्, हृदयम् = जीवनम्, प्रायशः = प्रायेण, रुणद्धि = नह्यति ।
शब्दार्थः —दिवसगणनातत्पराम् = अवधि के दिनों को गिनने में संलग्न, अव्यापन्नाम् = जीवित ( प्रिय आयेंगे इस आशा में ), एकपत्नीम् = पतिव्रता, भ्रातृजायाम् = अपनी भाभी, ताम् = उस मेरी पत्नी को, अविहतगतिः = बेरोक-टोक जाने वाले तुम, अवश्यं = निश्चित, द्रक्ष्यसि = देखोगे । आशाबंधः = आशा का बन्धनः, प्रणयि = प्रेमयुक्त, कुसुमसदृशम् = फूल की तरह कोमल, विप्रयोगे = विरह में, सद्यःपाति = तुरंत टूट जाने वाले, अंगनानाम् = स्त्रियों के, हृदयम् = हृदय को, प्रायशः = प्रायः, रुणद्धि = थामे रहता है ।
भावार्थः —हे मेघ विरहावशिष्टदिवसगणनासंलग्नाम्, प्रियागमनाशयाप्राणान्धारयन्तीमपासुलां मत्प्रियामविरुद्धगतिस्त्वमवश्यं विलोकयिष्यसि । आशारूपं बंधनं प्रेमपूर्णं कुसुमतुल्यमृदु प्रेमास्पदविरहे सद्योविनाशशालि बधूनां जीवितं प्रायशः रुणद्धि ।
हिन्दी—हे मेघ ! विरह के बचे दिनों को गिनने में लगी, मेरे आने की आशा से जीवित, पतिव्रता अपनी भाभी को ( मेरी पत्नी को ), अविहतगति वाले तुम अवश्य देखोगे, क्योंकि आशारूपी बंधन प्रेमपूर्ण फूल की तरह कोमल तथा प्रिय के विरह में तुरंत टूट जाने वाले अबलाओं के हृदय को प्रायः रोके रहता है ।
समासः —दिवसानां गणना = दिवसगणना (ष० तत्०) तस्यां तत्परा = दिवसगणनातत्परा ( स० तत्० ) ताम् । भ्रातुः जायाम् भ्रातृजायाम् ( ष०