मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 10, कुल 804 में से
संदर्भ में पढ़ें( २ ) तस्मादपि मीमांसाशब्दो निष्पद्यते । तत्र पूजार्थे कश्चन धातुर्विचारार्थे चापरः । पूजितविचारार्थे च न कोऽपि धातुः । अतः पूजितविचारार्थे मीमांसा शब्दः कथ- मिति प्रश्नस्य कल्पतरुपरिमलकाराः श्रीमदप्पय्यदीक्षितास्समादधति--'प्रसिद्धि- बलात्पूजितविचारार्थत्वम्' इति । प्रसिद्धिश्च व्यवहारः । तस्यापि शक्तिग्राहकत्वं नानुपपन्नम् । व्याकरणप्रसिद्धयभावेऽपि व्यवहारस्य शक्तिग्राहकत्वाङ्गीकारात् । अनेन सन्दर्भेण स्फुटमवगम्यते यदिदं शास्त्रं निष्पक्षपातं विचार्य वेदवाक्यतार्थ- निर्णयाय जैमिनिना प्रवर्तितमिति । न केवलं वेदवाक्यानामेवार्थनिर्णयाय शास्त्रमिदम्, किन्तु तेषु तेषु शास्त्रेषु विवादग्रस्तवाक्यानां तात्पर्यनिर्णयायापि मीमांसाया आवश्यकतारस्तीति तत्तच्छास्त्रकाराः स्वीयेषु ग्रन्थेषु मीमांसान्यायान् सादरमुपाददत इति पश्यामः । विशेषतो निबन्धग्रन्थेषु धर्मशास्त्रीयेषु मीमांसा- न्यायान् परिदर्शयतो ग्रन्थकारान् अनुभवामः । अत एव 'बहुविद्यान्तरग्रथितत्वम्' भट्टपादोक्तं सङ्गच्छते । किञ्च महर्षिर्जैमिनिः स्वीयानि सूत्राण्यधिकरणात्मना जग्रन्थ । अधिकरणशब्देन न्यायालयः कथ्यते । विवादग्रस्तेषु विषयेषु विवाद- प्रशमनाय लोका न्यायालयानन्यायं कामयन्ते । न्यायालयेषु निर्णीतानां न्यायानां संमुखं न समस्तैर्लोकैर्भाव्यमिति न्याय्यः पन्थाः । तमिमं पन्थानं जैमिनिना प्रवर्तितं सर्वेऽपि शास्त्रकारा आश्रितवन्त इत्यत्र किमाश्चर्यम् । 'मीमांसा तु लोका- देव प्रत्यक्षानुमानादिभिः अविच्छिन्नसम्प्रदाय-पण्डितव्यवहारैः प्रवृत्ता । न हि कश्चिदपि प्रथममेतावन्तं युक्तिकालापमुपसंहर्तुं क्षमः' ( तं. वा. पृ. १६७ आनन्दाश्रमसंस्करणम् ) इति निर्दिशन्तो भट्टपादा मीमांसाया अतिचिरन्तनादेव कालादविच्छिन्नगुरुशिष्यपारम्पर्यसमागतत्वम्, शास्त्रकाराभिलषितन्यायकला- पोपबृंहितत्वञ्चावगमयन्ति । 'अन्यैस्सह विरोधे तु वयं पञ्चोत्तरंशतम्' इति वैयासिकन्यायमवलम्बमानास्सर्वं एव दार्शनिकाः वेदबाह्यानां सिद्धान्तं खण्डयन्तो वैदिकमार्गावलम्बिन एव किन्तु वेदसन्दर्भे मीमांसकानां विशेषतश्च भट्टपादानां यादृशोऽभिनिवेशो न तादृशोऽन्येषामिति स्थितायामपि वस्तुस्थितौ वेदप्रामाण्या- भ्युपगमे न कस्याप्यास्तिकदार्शनिकस्य सङ्कोचः । कामं प्रामाण्यसाधनप्रकारे भेदस्स्यात् । एकैकोऽप्यास्तिकदार्शनिकः 'परस्परं विरोधे तु वयं पञ्चशतञ्च ते' इति न्यायं स्वीकुर्वन् मिथः खण्डनेऽवश्यं प्रवृत्तो भवतीति तु सत्यम्, किन्तु भट्टकुमारिलाः सर्वानिव दार्शनिकान् एकीकृत्य नेतुमिच्छन्त इव प्रतिभान्ति । स्मृत्यधिकरणे वेदमूलकत्वेन स्मृतीनां प्रामाण्यसाधनावसरे 'कर्तृसामान्यात्' इति सौत्रं हेतुमाश्रित्य न केवलं धर्मग्रन्थेषु स्मृतिषु किन्तु षडङ्गेषु दर्शनेषु पुराणेषु च कर्तृसामान्यहेतुं सङ्गमयन्तो भट्टपादा लिखन्ति- 'याश्चैताः प्रधान- पुरुषेश्वरपरमाणुकारणादिप्रक्रियाः सृष्टिप्रलयादिरूपेण प्रतीतास्तास्सर्वा मन्त्रार्थ- वादज्ञानादेव दृश्यमानसूक्ष्मस्थूलद्रव्यप्रकृतिविकारभावदर्शनेन च द्रष्टव्याः । प्रयोजनञ्च स्वर्गायागाद्युत्पाद्योत्पादकविभागज्ञानम् । सर्गप्रलयोपवर्णनमपि