भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 9, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 9

प्रस्तावना महर्षिजैमिनिना प्रणीतं मीमांसादर्शनं शाबरभाष्यसहितं प्रकाशपथ- मानीयते। यद्यप्यनेकत्र भाष्योपेतं दर्शनमिदं प्रकाशितम्, तथापि प्रकाशनमिदं किञ्चिद्वैलक्षण्यमावहेदध्येतॄणाम्। यतो ह्यत्र भाष्यव्याख्यानस्य भट्टपादविरचितस्य तन्त्रवार्तिकस्य, तद्व्याख्याया भट्टसोमेश्वरप्रणीताया न्यायसुधायाः श्रीगोविन्दा- मृतमुनिविरचितस्य भाष्यविवरणस्य, पण्डितश्रीमहाप्रभुलालगोस्वामिविरचि- तस्य 'भावप्रकाशिका' हिन्दी भावार्थस्य च संयोजनं विद्यते। शबरस्वामिविरचितं भाष्यं सरलैर्वाक्यैर्ग्रथितमप्यतिगभीरं विशेषेण महर्षिजैमिनेर्हृदयसमुद्धारकं व्याख्यासापेक्षमिति भट्टपादैस्तन्त्रवार्तिकमाविष्कृतम्, किन्तु तदपि दुरूहमिति भट्टसोमेश्वरो वार्तिकमर्मप्रकाशिकां न्यायसुधां प्रणिनाय। तन्त्रवार्तिकं न्यायसुधा- चेति द्वयमपि विना शाबरभष्येण पृथक् पृथगेव प्राक्प्रकाशितमासीत्। तदत्र भाष्येण सह संयोजितं विनेयानामध्यापकानाञ्च महत् उपकाराय स्यादिति तर्कयामि। सुकुमारमतीनामध्येतॄणामद्यतनानां तन्त्रवार्तिकन्यायसुधातो भाष्य- काराशयोऽवगन्तुमशक्य इति मन्वानः श्रीमन्नारायणामृतपूज्यपादशिष्य- श्रीगोविन्दामृतमुनिः शाबरभाष्यविवरणं रचयामास, तदप्यत्र समावेशितम्। एतावतापि तृप्तिमलभमानः श्रीमहाप्रभुलालगोस्वामी, संस्कृतविश्वविद्यालये दर्शनविभागाध्यक्षपदमधितिष्ठन् हिन्दीजगति वर्तमानैरपि मीमांसापरिष्कृत- मतिभिर्भाव्यमिति निर्धार्य हिन्दीभाषया भावार्थप्रकाशिकां व्याख्यां प्राणेषीत्। सापि व्याख्यात्र प्रकाशने संयोजिता। एवमत्र पूर्वापेक्षया वैलक्षण्यं वर्तते। मीमांसाशास्त्रमिदं धर्मशास्त्रमिति न्यायनिबन्धनात्मकं शास्त्रमिति, अध्वरमीमांसाशास्त्रमिति पूर्वतन्त्रमित्येवं नानाभिधानैर्व्यवह्रियते, न केवलम- भिधानमात्रं किन्तु 'मीमांसाख्या तु विद्येयं बहुविद्यान्तराश्रिता' इति भट्टपादोक्त्या विद्यान्तराणामाश्रयत्वेनापि परिग्राह्येयं मीमांसा। मीमांसा- शब्दनिर्वचनमेव तमिमं विषयं दृढीकरोति। तथा हि मीमांसाशब्दः पूजितविचा- रार्थे प्रसिद्धः। 'मानपूजायाम्' 'माङ्माने' इति पूजार्थे मानार्थे च धातुद्वयम्। तत्र 'मान्वधदान्शान्भ्यो दीर्घश्चाभ्यासस्य' इति सूत्रे 'माङ्' इत्यस्य ङकारानुबन्धस्य धातोर्नान्तित्वं निपात्यानिच्छार्थे सन् प्रत्ययेऽभ्यासस्य च दीर्घे मीमांसाशब्दो निष्पन्नः। 'धातोः कर्मणः' इत्याद्युत्तरसूत्रे इच्छार्थे सन्विधानात् अयमनिच्छार्थे सन्नित्यभ्युपगन्तव्यं भवति। 'मान विचारे' इत्यपि चुरादिगणपठितो धातुः।

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · पृष्ठ 9, कुल 804 में से · BharatKosha