भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 100, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 100

४८ मीमांसादर्शनम् [ सू०

नापि श्रुतविध्युपपत्त्या, अन्यथानुपपत्तिलक्षणार्थापत्त्यनुत्पादात् । यत्र त्वनन्तरं दृष्टं कार्यं न स्वयं पुरुषार्थो नाऽपि पारम्पर्येण तमाप्नोति यथा होमस्याऽऽहव- नीयप्राप्तिः, भस्मसाद्भावो वा । तत्र तदतिक्रमेण साक्षात्कर्मण एवादृष्टकल्पना । सर्वत्र चैतल्लक्षयितव्यम् । यत्र तु विहिते फलाकाङ्क्षिणि तदनात्मककार्यपरम्परायां सत्यामान्तरालिकं किंचित्क्रतवे, पुरुषार्थाय वा चोद्यते, तत्र तदेव तत्साधनम् । पूर्वस्य तु विधेस्तदु- पकारार्थतया पर्यवसानम् । यानि तूत्तरविधेः कार्याणि, प्राक्तानि साध्यसाधन- भावेनाचोदितत्वान्नान्तरीयकत्वेन काष्ठादीनामिव ज्वालादीनि पूर्वविहितकर्म- स्वव्यापारमात्रतया मन्तव्यानि । यत्र तु पारम्पर्यजन्यं न किंचिदन्तरा विधीयते, तत्र सर्वाणि स्वव्यापारी- कृत्य विधेयस्यैव स्वयं फलसाधनता । तत्र यानि तावत्क्लृप्तकल्पयिष्यमाणपुरुषार्थ- साधनविधिवाक्यानि, तानि तत्प्रतिपादनं यावत्स्वाध्यायाध्ययनविधिना नीयन्ते, परतस्तु फलवत्त्वं ज्ञातमेवेति न तद्यावत्प्राप्यन्ते । यानि तु तत्प्रकरणे पठ्यन्ते, तान्यपि तथैवाक्षरग्रहणादिक्रमेण स्वार्थावबोधनं यावद्गतानि न साक्षात् क्रत्वङ्गं भवन्ति । कुतः ? कथमित्यदृष्टोपायापेक्षेण क्रतुना दृष्टार्थत्वादक्षरादिष्वन- वसजता तद्विहितं कर्ममात्रमेव हि प्रयोजनद्वारेणोपादीयते, नान्यत् । अतः प्रधानवाक्यतुल्यान्यङ्गानि भवन्ति । तद्वाक्यानि तु बाह्यतराण्यध्ययनादिवत् । एवं प्रोक्षणादिवाक्यानां व्रीह्यादिसंस्कारमात्रफलावसितानां तण्डुलपिष्ट- पुरोडाशद्रव्यवदानादिभिर्व्यवहिततरः प्रधानसंबन्धः । एवमेवानारभ्याधीतारा- दुपकारकसामवायिकाङ्गवाक्यानि योजयितव्यानि । तत्र त्वेतावान्विशेषः । यदप्रकरणस्थत्वादक्षराण्यस्पृष्टप्रधानमर्थमेव १ संबध्यते । यानि त्वाधानादि- वाक्यानि तान्यपि फलवत्क्रत्वङ्गाहवनीयादिसंस्कारप्रतिपादनावसायिनि दूरस्थे- नैव फलेन निराकाङ्क्षीक्रियन्ते । एतेन क्रत्वर्थकर्तृप्रतिपादनद्वारेणोपनिषदां नैराकाङ्क्ष्यं व्याख्यातम् । मन्त्रनामधेययोस्तु स्वाधिकारे योजना वक्ष्यते । तेन सर्वेषां भावनान्तर्गतिरुपपन्ना । यत्त्वर्थवादानां भावनांशत्रयानन्तःपातित्वादग्रहणमिति, तत्राभिधीयते । सत्यम्, अतिरिक्तं न गृह्यते । अस्तित्वन्तर्गतिः । कथम् ? इह हि लिङ्गादियुक्तेषु वाक्येषु द्वे भावने गम्येते शब्दात्मिका, चार्थात्मिका च । तत्रार्थात्मिकयाऽर्थ- वादा नापेक्ष्यन्ते । शब्दात्मिकया तु ग्रहीष्यन्ते । सा ह्येवं प्रवर्तते स्वाध्याया- ध्ययनविधिनेतरे सर्वे विधायकाः स्वाध्यायपदोपात्तश्चाऽऽत्मा नियुज्यते भावये- दिति । तत्र लिङादीनां प्रयोजककर्तृत्वम्, पुरुषः प्रयोज्यस्तेन किमित्यपेक्षायां पुरुषप्रवर्तनमिति संबध्यते । अथ तु योग्यतयैव लिङादिविषया क्रियोच्यते

१. स्पृशन् ।