मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 101, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये द्वितीयपादः ४९ प्रवर्तयेदिति । ततः किमित्यपेक्षते पुरुषमित्येव संबध्यते । यद्यपि चाचेतनत्वा- ल्लिङादिष्वेवंविधं प्रयोजकत्वं न संभवति, तथाऽपि पुरुषस्य प्रयोज्यस्य प्रयोज- कत्वानुपपत्तेस्तद्गतचैतन्यद्वारेण विधायकानां प्रयोजकता । यदि चैवं न कल्प्येत, नैवेषां विधायकत्वव्यपदेशो भवेत् । अथ केनेत्यपेक्षिते पूर्वसंबन्धानुभवापेक्षेण विधिविज्ञानेनेति संबध्यते । कथमिति ? प्राशस्त्यज्ञानानुगृहीतेनेति । कुत एतत् ? बुद्धिपूर्वकारिणो हि पुरुषा यावत्प्रशस्तोऽयमिति नानुबुध्यन्ते, तावन्न प्रवर्तन्ते । तत्र विधिशक्तिरवसीदति, तां प्राशस्त्यज्ञानमुत्तम्भाति । तच्च पुरुषार्थत्वे फलांशे सर्वस्य स्वयमेवानुष्ठानं भवतीति प्रसिद्धत्वान्न वेदादुत्पद्य- मानमपेक्ष्यते । साधनेतिकर्तव्यतयोस्त्वप्रवृत्तपुरुषनियोगाच्छास्त्रमेव प्राशस्त्य- प्रतिपादनायाऽऽकाङ्क्ष्यते । तत्पुनः केन क्रियेतेति साधनापेक्षायां यदि वा फल- पदेन निवर्त्येत, प्रशस्तोऽयं भूतिफलत्वात् । अथ वा विधिनैव, सर्वदोषाशङ्का- विनिर्मुक्तवेदविहितत्वादिति । अथ वा विशिष्टद्रव्यदेवतेतिकर्तव्यतायुक्तत्वा- दिति । तत्र फलपदादीनामर्थान्तरोपयोगात्पुनरन्यत्राप्युपयोगो न युज्यते । विध्युत्तरकाला चेयमाकाङ्क्षा, पूर्वं च फलपदादिनिवेशः । तस्मादपि न तैर्नि- वर्त्यते । लक्षणा चैतेभ्यः कल्प्यते । न च श्रौतार्थसंभवे सा युक्ता । युगपच्चो- भयवृत्तिविरोधात्प्राशस्त्यपरत्वे फलादीनि न स्युः । न ह्यन्यशास्त्रे सत्युपाय- मात्रत्वेनोपात्तानामेकान्तेन पारमार्थिकत्वमिति वक्ष्यते । अत एव चार्थाद्गम्य- मानमन्यपरत्वाच्छब्दानां न प्राशस्त्यं प्रयोजनं भवति । न हि यद्यत्प्रतीयते तत्तच्छास्त्रफलमवसीयते । यथा पूर्वो धावतीत्युक्ते यद्यप्यपरो गम्यते, तथाऽपि न कार्येण युज्यते । तद्वत्प्ररोचना गम्यमानाऽपि न कार्यान्तरोपयुक्तशास्त्रार्थ- त्वेनावतिष्ठते । अन्यथानुपपत्त्या चेयं तेभ्यः कल्प्येत । सर्वप्रमाणप्रत्यस्तमये चान्यथानुपपत्तिर्भवति । प्रमाणाभावाच्च यः सर्वप्रकारं प्रयतमानस्य स प्रमाणम् । तद्यपि केनचिदुपदेशेन वा अतिदेशेन वा न लप्स्यामहे, ततो दविर्हो- मम्यायेन विध्युद्देशस्यैव द्वे शक्ती कल्पयिष्यामः । अथ तु केनचिद् दूरस्थेनापि सेत्स्यति, ततस्तदनुसारस्तावत्कर्तव्य इत्येवं साकाङ्क्षो विधिरास्ते । तथा वायुर्वे क्षेपिष्ठा देवतेत्येवमाद्यपि स्वाध्यायाध्ययनविधिना पुरुषार्थतयोपनीतं यच्छक्यते, तत्कुर्यादित्यपबन्धाच्च सहसैव तेनासंबध्यमानमपुरुषार्थत्वेन च पूर्ववदक्षरादिष्वपर्यवस्यद् भूतान्वाख्यानवाक्यार्थं यावद्भूतम् । तत्रापि तु साका- ङ्क्षमेवेति, यस्तेन लक्ष्यमाणः साधनानुरूपसाध्योत्पत्तिद्वारेण क्षिप्रदेवतासाध्यं कर्म क्षिप्रमेव फलं दास्यतीति प्राशस्त्यरूपोऽर्थः, सोऽनन्तरप्रवृत्तविध्युद्देशा- काङ्क्षितत्वात्पुरुषार्थे द्वारतां शक्नोति प्रतिपत्तुमिति परिगृह्यते । सोऽयं नष्टा- श्वदग्धरथवत्संप्रयोगः । एवं च न प्ररोचनाऽन्यकृता कर्माङ्गम् । न चार्थवाद- पदैः प्रयोजनान्तरं साधनीयमित्याम्नानसामर्थ्यादुभयोर्नियमः । एतेन प्रतिषेधा- ४