भारतकोश
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पृष्ठ 104, कुल 804 में से

संदर्भ में पढ़ें
पृष्ठ 104

५२ मीमांसादर्शनम् [ सू० रागभवने, तत्रैव युक्तम्, इह त्वनतिरिक्‍तार्थस्य सतः किमवान्तरवाक्यनिराकरण- मेव महावाक्यस्य युक्तं फलम् । तदेतदाह—यस्मिन् सत्यविधायकमवान्तरवाक्यं भवति, मा भूतन्महावाक्यमिति । सत्यम्, विनाऽपि तेनेति । यो नाम वेदस्य कर्ता स्यात्स एवं पर्यनुयुज्येत लघुनोपायेन सिद्धे किं महावाक्यमाश्रयसीति । तदभावान्न पर्यनुयोगः । परिहारपथग्रामगमनवच्च श्रमातिरेकमात्रं स्यान्नार्था- नवाप्तिः । दृष्टं चैवंजातीयेषु गौरवाश्रयणम् । यथा तमेवार्थं खमित्येतावता सिध्यन्तमाकाशप्रभृतिभिरभिलपन्ति, न च जाड्यं लभन्ते । तथाऽत्र लिङादि- भिरपि सिध्यन्तमर्थवादभ्यो गृह्णत इति । शक्यते चेदमिह वक्तुं यथैवानेकोपाय- प्रसङ्गे मन्त्रेण स्मृतं क्रियमाणमभ्युदयकारि भवति, तथाऽन्येनापि विधिसिद्धा- वर्थवादप्रतिपादितविधिविहितमिति । ननु सत्स्वपि स्तुतिपदेष्विति । यत्र लघु- मुपायमनुपादाय गुरुपाय आश्रीयते तत्र तथाऽपि भवेदत्र तु पूर्वमेव लघुतर आश्रितः समर्थतरश्च तस्माद्यथैव प्रयुक्ते खशब्दे नाऽऽकाशादयस्तदानीमेव प्रयुज्यन्ते, तथाऽत्र विधौ सति स्तुतिर्नाऽऽश्रयितव्येति । तत्रोत्तरसाकाङ्क्षत्वा- त्स्तुतिपदान्यनर्थकानि स्युरिति । भवन्त्विति चेत् । नोक्तेन न्यायेनार्थवत्त्वाद- विवक्षितार्थता युक्तेति । द्वयसंभवे हि प्रत्यक्षादेकवाक्यत्वादर्थवादानुग्रहो युक्त इति । ननु सत्स्वपीत्यनेन गतार्थत्वान्ननु निरपेक्षादित्यवक्‍तव्यम् । तदुच्यते तत्रार्थवादपरित्यागायोक्तमिदानीं तु भवतु नाम स्तुतिसंबन्धः समस्तस्य पूर्व- स्यापि तु स्वरूपावगतो विधिसंबन्धो न बाधितव्यः । अथास्य क्वचिदपि शक्ति- रपह्रियते, ततः प्रतिप्रसवहेत्वभावात्सर्वत्राशक्तत्वप्रसङ्ग इति । तदभिधीयते । भवतु पूर्वस्य विधिशक्तिर्न त्वियं क्वचिद्वाधितेत्यन्यत्रापि बाध्यते, कदाचिदा- विर्भूतेति सर्वत्राऽऽविर्भवति । यत्र त्वर्थान्तरस्तुत्यादि नोपादीयते, तत्रोऽऽविर्भूता शक्तिः कार्यमारभते । यत्र त्वपवादभूतशक्त्यन्तराभिव्यक्तिः, तत्र वाक्यभेद- प्रसङ्गात्पूर्वा तिरोधीयते । प्रश्नोत्तरत्वेनायं पूर्वोक्त एव वाक्यभेदः परामृश्यते । तस्मादेकार्थ्यात्प्ररोचनयैवात्र विधिरिति । प्ररोच्यमाना अनुष्ठातॄणामिति । “रुच्यर्थानां प्रीयमाणः” इति संप्रदानत्वं कस्मान्न भवति । प्ररोचयतेः प्रकृत्य- न्तरत्वादिति चेत् ? न, तत्रापि रुचिसंबन्धानपह्लवात् । अथ सामान्यविवक्षया षष्ठ्युच्यते । साऽप्युपात्ते विशेषे दुर्लभा । तस्मादनुष्ठातॄणां क्रियाया इति संबन्धः केभ्यः प्ररोच्यमाना इत्यपेक्षितेऽर्थात्तेभ्य एवेति गम्यते । अथ चानुष्ठातॄणामुप- करिष्यन्तीति संबन्धः । क्रियाया इति पञ्चमी क्रियातोऽपि हि त एव प्ररोचका इति । अथ वा क्रियार्थमिति षष्ठ्यर्थः कल्प्यः । कञ्चिदर्थं स्तुवन्तीति शत्रन्तम् । कञ्चिदिति विधेयं तत्संबन्धिनं वा कञ्चिद्वा विदधति क्रियां तत्संबन्धिनं वा तच्च स्तुतिद्वारेणेत्युपपन्नं प्रत्ययोद्धारेणार्थवादप्रामाण्यम् । विध्युत्खाति-पक्षनिरासः ।