मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 103, कुल 804 में से
संदर्भ में पढ़ें७ ] प्रथमाध्याये द्वितीयपादः ५१ केचित्तु स्वयमेव काव्यन्यायेन रचिताः । सर्वे च स्तुत्यर्थेन प्रमाणम् । ये तु वाक्यशेषत्वं न प्रतिपद्यन्ते, तेऽपि केचित्स्वयमेव श्रूयमाणगन्धमादनादिवर्णक- प्रभृतयः प्रीतिं जनयन्ति । ये तु युद्धवर्णकास्ते सर्वेषां शूराणां भीरूणां चोत्साह- कराः पार्थिवानामुपयुज्यन्ते । यत्र तु न किंचिद् दृष्टमुपलभ्यते, तत्र विशिष्ट- देवतादिस्तुतिद्वारमदृष्टं कल्पनीयमित्येषा दिक् । विध्युत्खातिपूर्वपक्षः । विध्युद्देशेनैकवाक्यत्वादिति । केचिदाहुः । किमर्था स्तुतिरिति चेत्कथं रोचेत ततोऽनुष्ठीयेतेत्येवं स्तुतिनिन्दाभ्यां प्रवृत्तिनिवृत्तिप्रतिपादनं लिङादिभि- श्चाभिधानमतस्तुल्यार्थत्वम् । न च तुल्यार्थानां समुच्चयः । तत्र ये तावदर्थ- वादरहिता लिङादयः तद्रहिताश्चार्थवादास्तेषां यथाविषयं व्यवस्थितं निवर्त- कत्वम्, प्रवर्तकत्वमविरुद्धम् । यत्र तु द्वयसंनिपातः, तत्रान्यतरेण कृतार्थत्वाद- वश्यावहेयेऽन्यतरस्मिन्भूयसामनुग्रहो युक्तः । 'त्यजेदेकं कुलस्यार्थे' इतिवद्विधि- प्रत्ययः परित्यज्यते । केवलप्रकृतिप्रयोगाभावात्तदनुग्रहार्थंपरोचनालब्धविधित्वा- नुवादेन प्रवर्तते । यथा 'सत्रादुदवसाय पृष्ठशमनीयेन यजेरन्' इति क्त्वाप्रत्यय- सिद्धप्रवृत्त्यनुवादकत्वं वक्ष्यते । तस्माद्वायव्यंश्वेतालम्भ इत्येतावन्मात्रं विवक्षि- तम् । स एव च विध्युद्देशः फलादिसंबन्धोत्तरकालं स्तूयत इत्येतद् भूतिकाम इत्येवमन्तो विध्युद्देश इत्यनेन कथ्यते । अन्यथा पुनरुद्देशग्रहणमनर्थकमेव स्यात् । स्वोक्तेन तु विधिनेकवाक्यत्वं न संभवतीत्यतिक्रम्य तद्विषयः परि- गृह्यते । तथा चाऽऽह-नायमभिसंबन्ध इति । विधिविधेयसम्बन्धनिषेधेन स्तुति- स्तुत्यसम्बन्धं विवक्षितं वदति यतस्ततो भूतिरिति । सैव च भूतिनिमित्तस्य योजना । भिन्नावभाविति पूर्वोक्तौ संबन्धावभिधत्ते । किमर्था स्तुतिरिति चेदिति । प्रत्ययश्चेदुत्खातस्तेनाविधीयमानस्य किं स्तुत्येति । अथ वा यदनया साध्यते, तत्प्रत्ययेनैव सेत्स्यतीति मनसि कृत्वा वदति । आचार्यस्तूत्खातेऽपि प्रत्ययेऽर्थवादादेव तदर्थवासिमुभयसंभवे चार्थवादानुग्रहं मत्वाऽऽह-कथं रोचे- तेति । इतरः प्रश्नाभिप्रायं विवृणोति । प्रागेव सिद्धेः स्तुतिवचनमनर्थकमिति । नहीति ग्रन्थच्छेदः । सर्वत्रावान्तरवाक्यानि महावाक्येष्वप्रमाणं महासंख्यास्वि- वावान्तरसंख्या भवन्ति । तान्येव तु यदा केवलानि प्रयुज्यन्ते, तदा निरपेक्ष- त्वाद्भवन्ति प्रमाणम् । यथा घटो भवतीति । न च कदाचिदेतावन्मात्रेण समाप्तेर्नैराकाङ्क्ष्यदर्शनात्सर्वत्र नैराकाङ्क्ष्यम् । योग्यपदान्तरानुच्चारणेन हि सर्ववाक्यानि पर्यवस्यन्ति । इतरथा पुनः श्रुतपदातिरेकेणापि निपुणदृशां भव- त्येवापेक्षा । सा चानुपलब्ध्या निवर्तते । तथा च यत्रोपलप्स्यन्ते, तत्रैकवाक्यतां गमयिष्यन्ते । अन्यथा ह्यसौ तदुच्चारणेऽपि न स्यात् । तदिह महावाक्येन विनाऽवान्तरवाक्यं प्रमाणम्, तत्सद्भावे तु नेत्येतदाह-यदा न स्तुतिपदानीति । नन्वेवं सतीति । यत्र महावाक्यावान्तरवाक्ययोः फलं भिद्यते यथा पटभवन-