मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
७ ] प्रथमाध्याये द्वितीयपादः ५१ केचित्तु स्वयमेव काव्यन्यायेन रचिताः । सर्वे च स्तुत्यर्थेन प्रमाणम् । ये तु वाक्यशेषत्वं न प्रतिपद्यन्ते, तेऽपि केचित्स्वयमेव श्रूयमाणगन्धमादनादिवर्णक- प्रभृतयः प्रीतिं जनयन्ति । ये तु युद्धवर्णकास्ते सर्वेषां शूराणां भीरूणां चोत्साह- कराः पार्थिवानामुपयुज्यन्ते । यत्र तु न किंचिद् दृष्टमुपलभ्यते, तत्र विशिष्ट- देवतादिस्तुतिद्वारमदृष्टं कल्पनीयमित्येषा दिक् । विध्युत्खातिपूर्वपक्षः । विध्युद्देशेनैकवाक्यत्वादिति । केचिदाहुः । किमर्था स्तुतिरिति चेत्कथं रोचेत ततोऽनुष्ठीयेतेत्येवं स्तुतिनिन्दाभ्यां प्रवृत्तिनिवृत्तिप्रतिपादनं लिङादिभि- श्चाभिधानमतस्तुल्यार्थत्वम् । न च तुल्यार्थानां समुच्चयः । तत्र ये तावदर्थ- वादरहिता लिङादयः तद्रहिताश्चार्थवादास्तेषां यथाविषयं व्यवस्थितं निवर्त- कत्वम्, प्रवर्तकत्वमविरुद्धम् । यत्र तु द्वयसंनिपातः, तत्रान्यतरेण कृतार्थत्वाद- वश्यावहेयेऽन्यतरस्मिन्भूयसामनुग्रहो युक्तः । 'त्यजेदेकं कुलस्यार्थे' इतिवद्विधि- प्रत्ययः परित्यज्यते । केवलप्रकृतिप्रयोगाभावात्तदनुग्रहार्थंपरोचनालब्धविधित्वा- नुवादेन प्रवर्तते । यथा 'सत्रादुदवसाय पृष्ठशमनीयेन यजेरन्' इति क्त्वाप्रत्यय- सिद्धप्रवृत्त्यनुवादकत्वं वक्ष्यते । तस्माद्वायव्यंश्वेतालम्भ इत्येतावन्मात्रं विवक्षि- तम् । स एव च विध्युद्देशः फलादिसंबन्धोत्तरकालं स्तूयत इत्येतद् भूतिकाम इत्येवमन्तो विध्युद्देश इत्यनेन कथ्यते । अन्यथा पुनरुद्देशग्रहणमनर्थकमेव स्यात् । स्वोक्तेन तु विधिनेकवाक्यत्वं न संभवतीत्यतिक्रम्य तद्विषयः परि- गृह्यते । तथा चाऽऽह-नायमभिसंबन्ध इति । विधिविधेयसम्बन्धनिषेधेन स्तुति- स्तुत्यसम्बन्धं विवक्षितं वदति यतस्ततो भूतिरिति । सैव च भूतिनिमित्तस्य योजना । भिन्नावभाविति पूर्वोक्तौ संबन्धावभिधत्ते । किमर्था स्तुतिरिति चेदिति । प्रत्ययश्चेदुत्खातस्तेनाविधीयमानस्य किं स्तुत्येति । अथ वा यदनया साध्यते, तत्प्रत्ययेनैव सेत्स्यतीति मनसि कृत्वा वदति । आचार्यस्तूत्खातेऽपि प्रत्ययेऽर्थवादादेव तदर्थवासिमुभयसंभवे चार्थवादानुग्रहं मत्वाऽऽह-कथं रोचे- तेति । इतरः प्रश्नाभिप्रायं विवृणोति । प्रागेव सिद्धेः स्तुतिवचनमनर्थकमिति । नहीति ग्रन्थच्छेदः । सर्वत्रावान्तरवाक्यानि महावाक्येष्वप्रमाणं महासंख्यास्वि- वावान्तरसंख्या भवन्ति । तान्येव तु यदा केवलानि प्रयुज्यन्ते, तदा निरपेक्ष- त्वाद्भवन्ति प्रमाणम् । यथा घटो भवतीति । न च कदाचिदेतावन्मात्रेण समाप्तेर्नैराकाङ्क्ष्यदर्शनात्सर्वत्र नैराकाङ्क्ष्यम् । योग्यपदान्तरानुच्चारणेन हि सर्ववाक्यानि पर्यवस्यन्ति । इतरथा पुनः श्रुतपदातिरेकेणापि निपुणदृशां भव- त्येवापेक्षा । सा चानुपलब्ध्या निवर्तते । तथा च यत्रोपलप्स्यन्ते, तत्रैकवाक्यतां गमयिष्यन्ते । अन्यथा ह्यसौ तदुच्चारणेऽपि न स्यात् । तदिह महावाक्येन विनाऽवान्तरवाक्यं प्रमाणम्, तत्सद्भावे तु नेत्येतदाह-यदा न स्तुतिपदानीति । नन्वेवं सतीति । यत्र महावाक्यावान्तरवाक्ययोः फलं भिद्यते यथा पटभवन-
५२ मीमांसादर्शनम् [ सू० रागभवने, तत्रैव युक्तम्, इह त्वनतिरिक्तार्थस्य सतः किमवान्तरवाक्यनिराकरण- मेव महावाक्यस्य युक्तं फलम् । तदेतदाह—यस्मिन् सत्यविधायकमवान्तरवाक्यं भवति, मा भूतन्महावाक्यमिति । सत्यम्, विनाऽपि तेनेति । यो नाम वेदस्य कर्ता स्यात्स एवं पर्यनुयुज्येत लघुनोपायेन सिद्धे किं महावाक्यमाश्रयसीति । तदभावान्न पर्यनुयोगः । परिहारपथग्रामगमनवच्च श्रमातिरेकमात्रं स्यान्नार्था- नवाप्तिः । दृष्टं चैवंजातीयेषु गौरवाश्रयणम् । यथा तमेवार्थं खमित्येतावता सिध्यन्तमाकाशप्रभृतिभिरभिलपन्ति, न च जाड्यं लभन्ते । तथाऽत्र लिङादि- भिरपि सिध्यन्तमर्थवादभ्यो गृह्णत इति । शक्यते चेदमिह वक्तुं यथैवानेकोपाय- प्रसङ्गे मन्त्रेण स्मृतं क्रियमाणमभ्युदयकारि भवति, तथाऽन्येनापि विधिसिद्धा- वर्थवादप्रतिपादितविधिविहितमिति । ननु सत्स्वपि स्तुतिपदेष्विति । यत्र लघु- मुपायमनुपादाय गुरुपाय आश्रीयते तत्र तथाऽपि भवेदत्र तु पूर्वमेव लघुतर आश्रितः समर्थतरश्च तस्माद्यथैव प्रयुक्ते खशब्दे नाऽऽकाशादयस्तदानीमेव प्रयुज्यन्ते, तथाऽत्र विधौ सति स्तुतिर्नाऽऽश्रयितव्येति । तत्रोत्तरसाकाङ्क्षत्वा- त्स्तुतिपदान्यनर्थकानि स्युरिति । भवन्त्विति चेत् । नोक्तेन न्यायेनार्थवत्त्वाद- विवक्षितार्थता युक्तेति । द्वयसंभवे हि प्रत्यक्षादेकवाक्यत्वादर्थवादानुग्रहो युक्त इति । ननु सत्स्वपीत्यनेन गतार्थत्वान्ननु निरपेक्षादित्यवक्तव्यम् । तदुच्यते तत्रार्थवादपरित्यागायोक्तमिदानीं तु भवतु नाम स्तुतिसंबन्धः समस्तस्य पूर्व- स्यापि तु स्वरूपावगतो विधिसंबन्धो न बाधितव्यः । अथास्य क्वचिदपि शक्ति- रपह्रियते, ततः प्रतिप्रसवहेत्वभावात्सर्वत्राशक्तत्वप्रसङ्ग इति । तदभिधीयते । भवतु पूर्वस्य विधिशक्तिर्न त्वियं क्वचिद्वाधितेत्यन्यत्रापि बाध्यते, कदाचिदा- विर्भूतेति सर्वत्राऽऽविर्भवति । यत्र त्वर्थान्तरस्तुत्यादि नोपादीयते, तत्रोऽऽविर्भूता शक्तिः कार्यमारभते । यत्र त्वपवादभूतशक्त्यन्तराभिव्यक्तिः, तत्र वाक्यभेद- प्रसङ्गात्पूर्वा तिरोधीयते । प्रश्नोत्तरत्वेनायं पूर्वोक्त एव वाक्यभेदः परामृश्यते । तस्मादेकार्थ्यात्प्ररोचनयैवात्र विधिरिति । प्ररोच्यमाना अनुष्ठातॄणामिति । “रुच्यर्थानां प्रीयमाणः” इति संप्रदानत्वं कस्मान्न भवति । प्ररोचयतेः प्रकृत्य- न्तरत्वादिति चेत् ? न, तत्रापि रुचिसंबन्धानपह्लवात् । अथ सामान्यविवक्षया षष्ठ्युच्यते । साऽप्युपात्ते विशेषे दुर्लभा । तस्मादनुष्ठातॄणां क्रियाया इति संबन्धः केभ्यः प्ररोच्यमाना इत्यपेक्षितेऽर्थात्तेभ्य एवेति गम्यते । अथ चानुष्ठातॄणामुप- करिष्यन्तीति संबन्धः । क्रियाया इति पञ्चमी क्रियातोऽपि हि त एव प्ररोचका इति । अथ वा क्रियार्थमिति षष्ठ्यर्थः कल्प्यः । कञ्चिदर्थं स्तुवन्तीति शत्रन्तम् । कञ्चिदिति विधेयं तत्संबन्धिनं वा कञ्चिद्वा विदधति क्रियां तत्संबन्धिनं वा तच्च स्तुतिद्वारेणेत्युपपन्नं प्रत्ययोद्धारेणार्थवादप्रामाण्यम् । विध्युत्खाति-पक्षनिरासः ।
७ ] प्रथमाध्याये द्वितीयपादः ५३ इदं तु व्याख्यानं नानुमन्यन्ते । यदि हि प्रत्ययोत्खातिः स्यात्, ततः केन स्तुतिराकाङ्क्ष्येत । न तावच्छब्दभावनाकथंभावोऽस्ति । याऽपि कस्मादित्यपेक्षा कल्प्येत, साऽपि विधीतिकर्तव्यताविषयैव, तदनुग्रहार्थत्वात् । शब्दान्तरव्यप- देशमात्रं तु भिद्यते । साऽपि च नियुज्यमानस्यैव पुरुषस्य भवति, न क्रिया- मात्रश्रवणात् । न हि वायव्यश्वेतालम्भ इत्युक्ते कर्तव्यताऽकर्तव्यतोक्तः प्राक् प्रशस्तोऽप्रशस्त इति वाऽपेक्ष्यते । तदनपेक्षितं च श्रुतिमात्रेणैव वदन्तो नार्थ- वादाः प्रतिपादयन्ति न च धात्वर्थेन सह कस्यचित् संबन्धः, अपेक्षा वा विद्यते । सर्वस्य भावनागामित्वात् । भावना तु प्रत्ययोद्धारेणापनीता किमपेक्षेत । तस्मात्तद्गतांशत्रयोच्छेदान्न भूतिः फलम्, न यागः करणम्, न वेतिकर्तव्यता काचित्स्यात् । उक्तेऽपि च प्राश- स्त्ये कस्मादित्यनपेक्षितत्वात्प्रशस्तोऽयमित्येतावन्मात्रेऽवधृते प्रशस्तत्वादित्य- नुच्यमाने कर्तव्यताबुद्धिर्नैव स्यात् । भवन्ती वा तन्निष्ठा भवेत्प्रशस्तोऽयं कर्तव्यः, पटो रक्तः कर्तव्य इतिवत् । अकल्पिते विधावानर्थक्यमेव स्यात् । प्रत्यक्षं च विधिमुत्सृज्य पारम्पर्यलक्षणयाऽर्थवादेभ्यः परिगृह्यत इतणपूर्वा वाचोयुक्तिः । न चैतत्कल्पनावसरोऽस्त्यन्यतः सिद्धत्वात् । अनुक्तो हि सन्नर्थवादादेव विधिः कल्प्येत, यद्यन्यथा नोपपद्येत । प्रत्यक्षप्रत्ययोपपन्नत्वान्नान्यथानुपपत्तिस्तथाऽर्थ- वादोऽपि यद्युपाख्यानादिष्वेव प्ररोचनायां निष्प्रयोजनः स्यात्ततो दूरं नीयेत । यथोक्तेन तु न्यायेन प्ररोचनोपयोगान्नान्यत्र गच्छतीत्यवश्यकर्तव्या च प्ररोचना, यद्यन्यतः सिध्येत्ततोऽर्थवादान्नापेक्षेत साऽपि त्वनन्यगतिकत्वात्तमेवाऽऽश्रयति । सर्वत्र च वैदिकेऽर्थेऽर्थापत्त्या शब्दः कल्प्येत, ततोऽर्थसिद्धिः तेन प्ररोचनया विधिशब्दः कल्प्येत, नार्थः, तत्कल्पनावेलायां च यथैन्द्रवायवादिवाक्येषु सोमेन यजेतेत्यस्मिन्नुपतिष्ठमाने नान्ययजिकल्पना, तथैवाऽऽलभेतत्येनेनान्यानुमान- प्रतिबन्धः । तुल्यार्थयोश्च बाधविकल्पौ भवतः प्रत्ययार्थवादयोः पुनरत्यन्तभिन्नानु- ग्राह्यानुग्राहकार्थविषयत्वेनार्थभेदात्समुच्चयः इत्येकवाक्यता । यदि च प्रत्ययो- त्खातिः स्यात्ततः कर्तृसंख्योपग्रहविशेषावगतक्रियाफलस्वार्थपरार्थत्वाद्युच्छेद- प्रसङ्गः । स्यादेतत् । विधित्वमात्रमविवक्षयित्वा शेषविवक्षया कर्तृसंख्यादिलाभ इति । एतच्चाशक्यं यतस्तदर्थमप्युपात्तः प्रत्ययः सामर्थ्याद्विधित्वं वदत्येव । प्रतीतस्य च द्वय्येवाविवक्षा, विध्यसंस्पर्शो वा ग्रहैकत्ववत् अनुवादकत्वं वेन्द्रिय- कामहोमवत् । न तावद्विधेरविधित्वं नाम किंचित् । नाप्यनुबादस्तस्यामवस्था- यामप्राप्तेः । न ह्येवं संभवति योऽयं वायव्यश्वेतालम्भः कर्तव्यः, स प्रशस्त इति । भवति त्वेवं कर्तव्यः, प्रशस्तत्वादिति ।
५४ मीमांसादर्शनम् [ सू० यत्तूदवसानीयवदिति तत्रापि क्त्वावशेन विधिप्रतिषेधावनपेक्ष्य क्रियामात्रा- विधित्वमाश्रितमेवेत्यदृष्टान्तता । यदि च विध्यविवक्षा स्यात्ततः प्रत्यासत्ते- र्धात्वर्थ एव साध्यांशे निपतेदिति निष्फलत्वं स्यात् । तस्मात्सूत्रातिनाशेनैव विधिनेकवाक्यत्वम् । तथा च भाष्यकारः । साविधिकमेव भूतिकाम इत्येवमन्तो विध्युद्देश इत्याह । अन्यथा धात्वर्थ इत्येवावक्ष्यत् । तन्नास्य क्रियामात्रतया विध्युद्देशत्वं शक्यते वक्तुम् । तस्मात्प्रत्यय एव विध्यभिधायित्वाद्विध्युद्देशः । विध्यर्थेन त्वेकवाक्यत्वासंभवात्सूत्रातिरेकेणोद्देशग्रहणम् । भूतिकाम इत्येवमन्त इति च फलादिसंगत्युत्तरकालं स्तुत्यवसरप्रदर्शनार्थम् । नन्वेवं सति वर्तमानोपदेशेष्वनाकाङ्क्षणादर्थवादा न संबध्येरन् । एवमे- वैतत्, तथाऽपि तु प्रमाणान्तरप्राप्त्यभावात्क्वचित्प्रयोगवचनेन क्वचित्पञ्चम- लकारेण । अथवा श्रुतवर्तमानस्यान्यथानुपपत्त्या कल्पिते विधित्वेऽर्थवादसंगतिः । यत्रापि केवलार्थवाददर्शनादेव विधित्वं तत्राप्यन्यथानुपपत्तिमात्रं शरणम् । संभवन्त्यां तु गतौ, नातिगौरवं युक्तमिति । यस्त्वस्मिन्पक्षे वाक्यभेदः संबन्धद्वयाश्रयणादिति, स आलभेन प्रशस्तत्वा- दित्येकप्रसरोपपत्तेः परिहृतः । विधीयमानस्यैव हि स्तुत्याकाङ्क्षेत्यवैरूप्यादुप- पन्नं तन्त्रत्वम् । यदि चैवंविधैः संबन्धभेदैर्वाक्यं भिद्येत ततः साध्यसाधनेति- कर्तव्यतासंबंधैरपि भिद्येत । तस्मान्नायमभिसंबन्धो^१ विवक्षित इत्यादिभाष्य- मेवं नेतव्यम् । न पूर्वत्रैव साङ्गविधिपर्यवसानं विवक्षितम् । विधित्वादिवार- प्ररोचनाकल्पनायामतिगौरवनििमत्ताद्वाक्यभेदात् । किमर्था स्तुतिरिति । पूर्वे- णैव प्ररोचनाऽपि सिद्धेत्यभिमानात् । कथं रोचेतेति—विध्यनुग्रहकथनम् । ननु प्रागिति—पूर्वाभिप्रायविवरणम् । न हीति । स्तुत्यभावे तस्य शक्तिद्वयमग- त्याऽऽश्रीयते न संभवन्त्यामपीत्येतत्, न, तदा भूतिकामस्य विधिः समाप्यत इत्याह—यथा घट इति । गतार्थम् । विधिशब्देन तदा प्ररोचनेति । विवृतं कार्यनानात्वं विधिस्तुत्योः । १. नायमभिसंबन्धो विवक्षित इत्यादि, भिद्येतेत्यन्तभाष्यस्यायमर्थः—भूतिकाम आलभते कस्माद्यतो वायुः क्षेपिष्ठेत्यनेन यः सार्थवादकस्य विध्युद्देशस्य विधिस्तुतिसंबन्धरूपो विशिष्टोऽर्थो दर्शितः, नायं विध्युद्देशमात्रेण विवक्षितः किं तु सार्थवादकेनेति । तर्हीत्ययं भिद्येतेत्यनेनान्वेति । आलभेतेति मध्यप्रतीकेन विध्युद्देशोपलक्षणम् । यतस्ततो भूतिरित्यर्थवादस्योपलक्षणम् । तथा च विशेष्यविशेषणरूपभिन्नाविमा- वर्थौ विध्युद्देशार्थवादाभ्यां प्रतिपाद्यमानौ यद्येकेन विध्युद्देशेन प्रतिपिपादयिषितौ तर्हि गौरवलक्षणो वाक्यभेद इति ।
७ ] प्रथमाध्याये द्वितीयपादः ५५ नन्वेवमिति । अस्ति चेत्प्ररोचयितुमपि शक्तिः, कस्मादन्यदपेक्ष्यत इति । सत्यमिति । तस्माद्विद्यमाने तस्मिन्नाविद्यमाने योऽर्थः स गम्यते । कश्चासौ । स्तुतिः प्रयोजनं तयोः । न तस्यैव पूर्वस्यापोत्यर्थः । स्तुतिविषयोपकल्पनाच्च विधेरपि स्तुतिप्रयोजनव्यपदेशः । न हि निर्विषया स्तुतिरुपपद्यते । अर्थवादा- भावे त्वगत्या केवलोऽपि गौरवमङ्गीकरिष्यति । ननु सत्स्वपीति । पूर्ववदेव व्याख्येयम् । अतोऽस्माद्विधेरिति१ । इदानीं षष्ठी- वाक्यशेषसंबन्धादित एवास्य स्तुतिमवगच्छामो न स्वत इत्यर्थः । ननु निर- पेक्षादपीति । यदि क्वचिदनितिकर्तव्यताकस्य विधेः प्रवर्तनशक्तिः कस्मादन्यद- पेक्षते, तेन सत्स्वप्यनादरः स्यात् । आचार्यस्तु सोपहासमाह-यत्रासौ केवलः प्रयुज्यमानो निरपेक्षः । तत्र भवतु न कश्चिद्विरोधः । इह त न तत्संभवः साका- ङ्क्षैः पदान्तरैराक्षिप्तत्वात् । वाक्यं ह्येकमेकस्यैव संबन्धस्य विधायकम् । तन्न यदि द्वौ विध्युद्देश एव कुर्यात्तथा सति भिद्येत । विध्युद्देशोत्थापितानामेवैष हि गुणो भवतीति प्ररोचनां दर्शयति । तस्माद्विधिनैकवाक्यत्वात्तदनुग्रहेणार्थवन्तोऽ- र्थवादा इति ॥ ७ ॥ न्या० सु० ] पूर्वपक्षसिद्धान्तयोर्भिन्नविषयत्वापत्तेरपूर्वोदाहरणानुपपत्तिमाशङ्कते-पूर्व- पक्षेति । नातिप्रयत्निनं परिहारमाह-केचिदिति । भाष्यकारस्यानिपुणत्वापत्तेरिमं परिहारं दूषयति—यद्यपीति । स्वमतेन परिहरति—तदभिधीयत इति । अत्र भाष्यकारेण वायुर्वै- क्षेपिष्ठा देवतेति यद्यपि क्रिया नावगम्यते, क्रियासम्बद्धं वा, तथापि विध्युद्देशेनैकवाक्य- त्वात्प्रमाणमित्युक्त्वा, कथमेकवाक्यभावः ? इति पृष्टे पदानां साकाङ्क्षत्वाद्दिधेः स्तुतेश्चैक- वाक्यत्वमित्यभिधानादेकवाक्यत्वं प्रामाण्यकारणम्२, स्तुत्यर्थत्वं त्वेकवाक्यत्वकारणमुक्त- मिति प्रतिभाति । तच्चायुक्तम्, विध्येकवाक्यत्वं विना लाक्षणिकस्तुत्यर्थत्वायोगादितरे- तराश्रयापत्तेरित्याशङ्क्य व्याचष्टे—तत्रेति । स्तुत्यर्थत्वोपपादनद्वारेणैकवाक्यत्वस्यो- पयोगरूपप्रामाण्यकारणत्वमभिप्रेतम्, न साक्षात् । विधिस्तुतिपदसाकाङ्क्षत्वं तु समभि- व्याहारावगतैकवाक्यत्वनिर्वाहायोक्तमित्यदोषः । तदेतद्भाष्यमाक्षिपति—एतावत्स्विति । सामान्यतः पुरुषार्थानुबन्धित्वासिद्धौ तदधीनलाक्षणिकस्तुत्यादिद्वारविशेषनिरूपणाशक्ते- स्तदेवादौ साध्यमिति प्रथमशब्देनोक्तम् । स्वारसिकैकवाक्यत्वावगमे३ श्रौतार्थत्यागस्य १. यतो वाक्यशेषोऽतो विधेः—विधिसंबन्धिनोऽस्माद्वाक्यशेषाद्विधेयस्य स्तुतिमव- गच्छाम इत्यर्थः । नत्वनेन भाष्येण विधिरेव स्तुतिप्रतिपादक इत्युपसंह्रियेत । पूर्व- ग्रन्थविरोधापत्तेरिति । २. धर्मप्रमाजनकस्वरूपप्रामाण्यकारणं तदाश्रितम्, ततो धर्मप्रमानुत्पत्तेः । ३. ननु समभिव्याहारलक्षणैकवाक्यताप्रकृते स्वारसिकी सम्भवतीति चेत् ? विभज्य- मानसाकाङ्क्षत्वे सत्येकार्थप्रतिपादकत्वं स्वारसिकमेकवाक्यत्वं विवक्षितम् । प्रकृते त्वर्थवादानां निराकाङ्क्षत्वेन तदभावात् ।
५६ मीमांसादर्शनम् [ सू० गङ्गायां घोष इत्यादी दर्शनात्तेद्व्युदासार्थं बलादित्युक्तम् । स्वरसतो प्रतीयमानाप्येक- वाक्यता पुरुषार्थानुबन्धित्वलाभाय स्तुत्यर्थत्वावधारणात्तद्वशेन कल्प्यमाना नेतरेतरा- श्रयापादिकेत्याशङ्कां निराकर्त्तुं पुरुषार्थत्वं वेत्युक्तम् । पुरुषार्थानुबन्धित्वस्याप्यप्रमाण- कत्वादिति भावः । बहुक्षीरादिवाक्येषु रूपभङ्गेनापि पुरुषार्थपर्य्यवसायित्वदर्शनाद्वेदेऽपि तथानुमानं १ स्यादित्याशङ्कते—लौकिकवाक्येष्विति । आक्षेप्ता पुरुषार्थपर्य्यवसायित्वे साध्ये वाक्यत्वस्य हेतोरप्रयोजकत्वं दूषणमाह—तत्रेति । एतदेवोपपादयति—लोके ऽपीति । समाधानान्तर- माशङ्कते—तत्रेति । कथं तेन सूत्रेण पुरुषार्थपर्य्यवसायित्वसिद्धिरत आह—न हीति । आदरण्यान्यथानुपपत्तिः पुरुषार्थपर्यवसायित्वे प्रमाणम्, तेन सूत्रेण वक्ष्यत इति भावः । न च व्यामोहादादरोपपत्तिरित्याह—यद्यपीति एतदेवोपसंहरति-तस्मादिति । एतदप्याक्षेप्ता दूषयति—न त्वेतदिति । नन्वाप्तवाक्यवत्पुरुषाधोनप्रामाण्याङ्गीकरणमपि न दोषाय स्यादत आह—यदि हीति । अयमाशयः—किमत्र स्वादरान्यथानुपपत्त्या प्रयोजनवत्त्वकल्पनं स्यात्, पुरुषान्तरादरान्यथा- नुपपत्त्या वा । तत्राद्ये पक्षे स्वाद्रात्प्रयोजनवत्त्वावगमः प्रयोजनवत्त्वावगमाच्च स्वादर इत्यन्योन्याश्रयः स्यादित्यनेनोक्तम् । द्वितीये तु मूलप्रमाणाभावेनान्धपरम्परेत्याह— अथेति । तदेव दर्शयति—सर्वत्र हीति । नन्वादरान्यथानुपपत्त्याध्येतृषु प्रयोजनवत्त्वज्ञाने कल्पिते तत्कारणीभूतं किं चिन्मूलप्रमाणं कल्पयिष्यामोऽत आह—तेनेति । कस्यचिन्मूल- प्रमाणस्यासम्भवाद् भ्रान्तिमूलत्वं प्रसज्येतेति भावः । कथमसम्भवोऽत आह—अतो यावदिति । एवमाक्षिप्याध्ययनविधिरैव सर्वस्य पुरुषार्थ- पर्यवसायित्वे प्रमाणमिति स्वमतेन समाधातुमुपक्रमते—तदुच्यत इति । विध्यादिसाधारण्य- प्रदर्शनार्थं सकलग्रहणं । पूर्वं तावत्सर्वोपयोगः प्रतिपाद्यते । पश्चादर्थवादानां द्वारविशेष इति तावच्छब्देनोक्तम् । निष्प्रयोजनाक्षरमात्राध्ययनेऽपि बुद्धिपूर्वकारिणां पुंसां प्रवर्त्त- यितुमशक्यत्वान्नै कस्याप्यक्षरस्य निष्प्रयोजनत्वमध्ययनविधिरनुमन्यते । न चैकदेशे दृष्टार्थ- स्याद्दृष्टार्थत्वमेकदेशान्तरे युक्तम् । एकत्र नियमविधिः, परत्राप्राप्तविधिरिति वैरूप्यस्या- परिहार्थत्वात् तस्मात्सकलस्यैव वेदस्य प्रयोजनवदर्थपर्यवसायित्वमध्ययनविधिबलाद- वसीयत इति भावः । ननु क्वचिदध्ययनविधेः पुरुषार्थपर्यवसायित्वे सिद्धे सत्यवैरूप्याय सर्वत्र तथाङ्गी- करणं युक्तम्, तदेव तु निष्प्रमाणकं समानपदोपात्तस्याध्ययनस्यैवभव्यत्वोपपत्तेरित्याशङ्क्य प्रथमसूत्रोक्तं दृष्टार्थत्वे दर्शयितुमाह—तत्रेति । कस्मिन्नंशे तर्हि तस्य निवेशः, अत आह— ततश्चेति । साध्यांशानिवेशकारणस्य विधिविरोधस्यात्राभावमविरोधादित्यनेन दर्शयति । नामांथंस्य करणांशे निराकर्त्तुं सन्निधेरित्युक्तम् । तेनात्र भाव्याकाङ्क्षायां श्रुतभाव्या- १. अर्थवादवाक्यं पुरुषार्थपर्यवासायि वाक्यत्वात् बहुक्षीरादिवाक्यवत् ।
७ ] प्रथमाध्याये द्वितीयपादः ५७ भावादश्रुतादृष्टकल्पने च तस्य स्वरूपम्, तज्जन्यत्वम्, तत्र चाध्ययनस्य शक्तिः कल्प्येतेत्य- नन्तादृष्टकल्पनागौरवापत्तेः, दृष्टस्य जन्यत्वमात्रं कल्पनीयमित्याह—तेनेति । एवं तर्ह्य- नन्तरदृष्टाक्षरग्रहणमात्रेण नैराकाङ्क्षयान्नाभिमतं वाक्यार्थज्ञानपर्यन्तत्वं सिद्ध्येदित्याशङ्क्य प्राक् पुरुषार्थसिद्धैर्नेराकाङ्क्ष्याभावं दर्शयति—तस्यापीत्यादिना—निराकाङ्क्षी भवतीत्यन्तेन । आधानादिविधीनामपुरुषार्थरूपााहवनीयादिमात्रे नैराकाङ्क्षयदर्शनादिहापि तथा स्यादित्याशङ्क्याह—एवमिति । एवं तर्हि न साक्षात्पुरुषार्थपर्यवसाय्येव सर्वत्र फलमस्तु अत आह—न चेति । पारम्पर्यपुरुषार्थफलत्वेनापि विध्युपपत्तेर्न नियोगतः साक्षात्पुरु- षार्थफलत्वे किंचित्प्रमाणमस्तीति भावः । एवमपि कथमत्र दृष्टफलत्वनिश्चयः ? अत आह—योग्यतया हीति । लाघवमनेन निश्चयकारणमुक्तम् । एवं तर्हि होमादावप्याहवनीय- प्राप्यादिदृष्टकार्यसम्भवाददृष्टकल्पना न स्यात्, वक्तव्यो वा विशेषः, अत आह--तत्रेत्या- दिना अदृष्टकल्पनेत्यन्तेन । पारम्पर्येणापि तस्य पुरुषार्थानुबन्धाभावात्फलत्वं न सम्भव- तीति भावः । नन्वेवमपि पारम्पर्य्यपुरुषार्थानुबन्ध्र्यक्षरग्रहणमनन्तरदृष्टत्वात्फलं स्यात्, साक्षात्पुरुष- र्थरूपं वा स्वर्गादि वाक्यार्थज्ञानस्य तूभयरूपरहितत्वात्फलत्वाङ्गीकरणमयुक्तमित्याशङ्क्य तत्प्रतिपत्त्युपयोगितया सामान्यन्यायं तावद्वक्तुमारभते—सर्वत्र चेति । विहितेऽवघाता- दावफलात्मकवैतुष्यादिदृष्टकार्यपरम्परायामान्तरालिकं यत्पुरोडाशादि क्रतवे, यागादि वा पुरुषार्थाय चोद्यते । तदेव तस्य क्रतोः पुरुषार्थस्य वा साधनम् । पूर्वस्य१ त्ववघाता- दिविधेः पुरोडाशादियागाद्युपकारार्थत्वमात्रम्, न पुरुषार्थपर्य्यन्ततेत्यर्थः । पेषणादीनां तर्हि कथमन्वयः ? अत आह—यानि त्विति । पेषणादिविधेयानि कार्याण्यनुष्ठेयानि पेषणा- दीनि, तानि पूर्वविहितस्यावघातादेः स्वव्यापारमात्रतया द्वारमात्रतयान्वीयन्ते, नान्तरी- यकत्वात्, तैर्विनाऽवघातादिना पुरोडाशादेः कर्तुमशक्यत्वात् । किमिति पेषणादेरवघा- तादिसाध्यत्वम्, पुरोडाशसाधनत्वं वा नेष्यत इत्याशङ्क्योक्तम्—प्राक् साध्यसाधनभावेना- चोदितत्वादिति । यदि२ ह्यवघातविधेः प्राक् पेषणादेः पुरोडाशसाधनत्वमवगतं स्यात्, तत्प्रयोजनवत्त्वेन योग्यत्वादवघातसाध्यत्वं युज्यते । पुरोडाशप्रकृतिभूतव्रीह्युद्देशेन विधा- नाच्चावघातस्यैव पूर्वं पुरोडाशसाधनतां प्रतीमः । यदि च पेषणादिविधेः प्राक् पेषणा- देरवघातसाध्यत्वावगमः स्यात् । ततो द्वारमात्रत्वं न युज्येत न त्वेतदस्ति । पुरोडाशस्यै- वोक्तन्यायेनावघातसाध्यत्वावगमादित्यर्थः । ३यद्दोत्तरविधिशब्देन पुरोडाशविधिमभिप्रेत्य तस्मात्प्राग्यानि कार्याणीति योज्यम् । नन्वेवं तर्ह्यादानानुमितविधिबलेन भस्मसाद्भावस्यापि फलसाधनत्वावगमादश्रुतफलस्य १. अनुध्यानपेक्ष्येत्यर्थः । २. किमपेक्षया प्रागत आह । ३. यदा तूतरविधेरिति पञ्चमी तदोत्तरविधिः पुरोडाशविधिः प्रागिति च कार्यपदेन सम्बध्यत इत्याह—यद्वेति ।
५८ मीमांसादर्शनम् [ सू० होमस्य तत्साधनत्वापपत्तेर्न दृष्टफलकल्पना स्यादित्याशङ्कयाह—यत्र त्विति । अयमाशयः१ विध्यभावे ऽप्यदग्धस्य क्रत्वर्थस्य कदाचिदुपघाते सति क्रतुवैगुण्यापत्तेस्तत्परिहाराय दाहादरोपपत्तेर्नैकान्ततो विध्यनुमानम्, विध्यनुमाने ऽपि द्वारमात्रतयापि विध्युपपत्तेर्न फलसाधनत्वकल्पना युक्तेति । एवं सामान्यन्यायमुक्त्वा तदनुसारेण यथाध्ययनविधेर्वाक्यार्थज्ञानपर्यन्तत्वं भवति, तथा प्रपञ्चयन्नाह—तत्रेति । श्रुतफलेषु क्लृप्तः पुरुषार्थो, अश्रुतफलेषु कल्पयिष्यमाण इति सर्वाणि प्रधानवाक्यानि अनेन परामृष्टानि । तत्प्रतिपादनं यावदित्यनेनाक्षरग्रहणादीनां पेषणादिन्यायेनावान्तरव्यापारमात्रत्वादध्ययनफलत्वं निराकृतम् । फलवद्व्यवहाराङ्गभूतार्थप्रत्ययाङ्गता । निष्फलत्वेन शब्दस्य योग्यत्वादवधार्यते ॥ इत्यनेन न्यायेन वाक्यार्थज्ञानार्थं स्वाध्यायोद्देशेन विहितस्याध्ययनस्य पुरोडाशार्था- वघातवद्वाक्यार्थज्ञानार्थत्वावधारणात्तदन्तरालवर्त्तिनामक्षरग्रहणादीनां पेषणादिन्यायेना- वान्तरव्यापारत्वमात्रं युक्तमिति भावः । ननु पुरोडाशस्य विध्यन्तरेण क्रत्वर्थतया फलत्वज्ञानाद्युक्तमवघातसाध्यत्वम्, वाक्यार्थ- ज्ञानस्य तु कथम् ? अत आह—परतस्त्विति । वाक्यार्थज्ञानस्य सामर्थ्येन, यदेव विद्यया करोति श्रद्धयोपनिषदा, तदेव वीर्य्यवत्तरं भवतीति वाक्येन वा कर्म्मानुष्ठानार्थत्वाव- धारणात्कर्मणां च विध्यन्तरैः पुरुषार्थफलत्वावधारणात् न तत्पर्य्यन्तमध्ययनविधिरा- यास्यति इत्यर्थः । ननु च भवतु प्रधानवाक्यानां स्वार्थप्रतिपादनमात्रेण पर्य्यवसानमङ्गवाक्यानां त्वर्थ- द्वारेण, स्वरूपस्यापि मन्त्रवत्प्रधानेऽग्रहणात्कर्मकालप्रयोज्यत्वावगतेनार्थप्रतिपादनमात्रेण पर्य्यवसानमित्याशङ्कयाह—यानि त्विति । अयमाशयः—न मन्त्राणामङ्गभूतार्थप्रति- पादनमात्रेण स्वरूपग्रहणं ज्ञातम्, किं तु विधिवशात् । न चाङ्गवाक्यानां विधिरस्ति, प्रकरणपाठेन च क्रत्वङ्गत्वं शङ्क्यमानमनारभ्याधीतानां तावन्न शक्यते शङ्कितुम्, प्रकरणा- धीतानामपि प्रयाजादिवाक्यानां प्रमाणाभावान्न सम्भवतीति । एतदेव प्रश्नपूर्वकमुपपाद- यति—कुत इति । अदृष्टार्थत्वेन क्रतोरदृष्टोपकारापेक्षत्वान्न२ दृष्टार्थाङ्गवाक्यग्राहकत्व- मित्यर्थः३ । प्रयोजनशब्देनोपकारमाह । न च साक्षात्क्रतुसम्बन्धायापि प्रयोज्यत्वकल्पनं४ १. नन्वादरानुमितविधिविहितत्वं भस्मसाद्भावस्य विद्यत एव कथमुच्यते न किंचिद्वि- धीययत—इत्यत आह—अयमाशय इति । २. वाक्यार्थप्रतिपादनं दृष्टोऽर्थः । ३. नन्वङ्गानामफलत्वात् कथं प्रयोजनद्वारेणेत्युक्तमत आह—प्रयोजनेति । ४. प्रयोगकाले पाठकल्पनमित्यर्थः ।
७ ] प्रथमाध्याये द्वितीयपादः ५९ पारम्पर्येणापि पुरुषार्थानुबन्धलाभादित्यर्थान्तरन्यासेनाह—अत इति । अङ्गानां प्रधान- वाक्यवदेकान्तरितपुरुषार्थान्वयित्वाद् बाह्यत्वम् । तद्वाक्यानां तु द्व्यन्तरितत्वात्प्रधानाद् बाह्यतरत्वम् । एतच्च द्व्यन्तरितत्वं प्रकरणाधीतारादुपकारकाङ्गवाक्यविषयम्; सामवा- यिकाङ्गवाक्यानां त्वादिशब्दोपात्तोपनयनादिवद् बहुव्यवधानमित्याह—एवमिति¹ । स्व- मते पुरोडाशस्यैव साक्षात्प्रधानभूतयागसाधनत्वात्; भाष्यकाराभिप्रायेण द्व्यवदानग्रहणं व्यवहिततरत्वप्रदर्शनार्थं कृतम् । आदिशब्दो व्रीह्यादित्यादिशब्दोपात्ताज्यादिविषयः चतु- र्गृहीताचभिप्रायो द्रष्टव्यः । एतामेव सन्निधिव्यवधिव्यवस्थामनारभ्याधीताङ्गवाक्येष्वतिदिशति—एवमेवेति । कथं तर्ह्यनारभ्याधीतानां प्रकरणाधीतेभ्यो दौर्बल्यमत आह—तत्र त्विति । असम्बद्ध- वाक्यान्तरव्यवायेन तेषां प्राकरणिकाङ्गवाक्यवत्प्रधानवाक्यैकवाक्यत्वायोगादिति भावः । अनङ्गवाक्यानां त्वतिदूरव्यवधानमित्याह—यानि त्विति । ननूक्तेन द्वारेण पुरुषार्थानुबन्धिकर्मानुष्ठानोपयोगिवाक्यार्थज्ञानं सर्वविधिवाक्येषु सम्भवदपि सकलवेदाव्यापित्वान्नध्ययनविधिप्रयोजनं भवितुमर्हतीत्याशङ्क्य सूत्रभाष्य- कारानुक्तत्वादुपनिषद्वाक्यानां तावदुपयोगमाह—एतेनेति । उपनिषदामपि² आधानादि- वाक्यन्यायेन दूरस्थेनैव क्रतुफलेन नैराकाङ्क्ष्यमित्यर्थः । कथमित्यपेक्षिते क्रत्वर्थकर्तृप्रति- पादनद्वारेणेत्युक्तम् । परलोकफलेषु कर्मसु विनाशिदेहादिव्यतिरिक्त नित्यकर्तृभोक्तृरूपा- त्मज्ञानं विना प्रवृत्त्यनुपपत्तेरहंप्रत्ययेन च देहे ऽपि दृष्टेन स्फुटतया तद्व्यतिरेकस्य ज्ञातुम- शक्यत्वात् शास्त्रीयमात्मज्ञानं क्रतुविधिभिरपेक्षितं क्रत्वर्थप्रतिपादनम् तस्य चानारभ्य- विहितस्यापि सामर्थ्येन पूर्वोदाहृतेन वाक्येनोपनिषदाममन्त्रत्वेन स्वरूपप्रयोज्यत्वाभावा- दुपनिषज्जनितस्यात्मज्ञानस्य फलातिशयलक्षणवीर्यवत्तरत्वहेतुत्वाभिधानपरेण क्रत्वङ्गत्वा- वधारणात् तद्द्वारेण पुरुषार्थानुबन्धित्वम् । ज्ञानस्य चाव्यापाररूपकत्वेन स्वरूपेणाविधेय- त्वे ऽप्युपासनापरनामधेयं ध्यानमेवात्मा ज्ञातव्य इत्यादिभिर्विधीयते । अप्रतिपन्नस्वरूपस्य च ध्यातुमशक्तेरात्मस्वरूपप्रतिपादनमविनाशी वा अरेऽयमात्मेत्यादिभिः क्रियमाणं विध्यपेक्षित- त्वानार्थवादेष्विवानादरमर्हतीति तद्द्वारेणोपनिषदां पुरुषार्थपर्यवसानमिति भावः । एतच्च संसारिरूपात्मप्रतिपादनाभिप्रायम् । असंसारिरूपसगुणनिर्गुणात्मज्ञानस्या- भ्युदयनिःश्रेयसार्थतया साधुशब्दाधिकरणे वक्ष्यमाणत्वात्सिद्धार्थप्रतिपादनपराणामप्युप- निषदामुपासनाविधिशेषतया ³चोदनाशब्देनोपादानसम्भवाच्चोदनासूत्रप्रतिज्ञातप्रामाण्य- १. ननु द्व्यवदानस्याचार्यमते प्रतिपत्तित्वात् कथं यागसाधनत्वमुक्तमत आह—स्वमत इति । २. यथाधानादिवाक्यानां क्रत्वङ्गभूताग्निसंस्कारप्रतिपादनद्वारेण पुरुषार्थत्वं तथेत्यर्थः । ३. चोदनेति ननु चोदनाशब्दस्य मन्त्रार्थवादनामधेयोपेतमहावाक्यत्वमुक्तम् । तत्र चोपनिषदामनन्तर्भावात्पुरुषार्थौपयिकत्वेन चेत्यग्रिमभक्तिकयार्थवादेभ्यः पृथक्- करणात् कथं चोदनाशब्देनोपादानम्; कथं वा तत्सूत्रप्रतिज्ञातप्रामाण्यसाधनमिति चेत्, सत्यम् किं तु कर्तुरितिकर्तव्यतात्वेन सर्वत्र भावनान्तर्गतैरुक्तदोषाभावादित्यर्थः ।
६० : मीमांसादर्शनम् [ सू० साधनं सङ्गतम् । पुरुषार्थापयिकत्वेन चात्मस्वरूपप्रतिपादने असंसार्यात्मज्ञाननैरा- काङ्क्ष्यसम्भवात् पदकवाक्यत्वाभावेनार्थवादवैलक्षण्यमिति सर्वमनवद्यम् । मन्त्रनाम्नोः केन द्वारेण नैराकाङ्क्ष्यमत आह—मन्त्रेति । योज्यते सम्बध्यते भाव- नया सहानेनेति व्युत्पत्त्या योजनाशब्देन द्वारमुक्तम् । ननु साध्यसाधनेतिकर्त्तव्यतानभि- धायित्वेनाक्रियार्थत्वान्मन्त्रादीनामानर्थक्यमाशङ्कितम्, तत्कथं क्रियार्थत्वमव्युत्पाद्यैवार्थवत्त्वं व्युत्पाद्यते, तत्राह—तेनेति । येन भावनासम्बन्ध्यर्थप्रतिपादनेनैवार्थवत्त्वं वक्ष्यते, तेन भावनान्तर्गतिः सिद्धैवेत्यर्थः । अर्थवादोपयोगद्वारानभिधाने ऽप्यध्ययनविधिवलेन सामान्यतः सर्वोपयोगस्य साधितत्वात्सर्वेषामित्युक्तम् । एतच्च सामान्यतः सर्वोपयोगस्यप्रतिपादनम्, [सूत्रेष्वेव हि तत्सर्वं यद्वृत्तौ यच्च वार्त्तिके इति] न्यायाद्विधिना त्वेकवाक्त्वादिति सूत्रावयवारूढं¹ द्रष्टव्यम्, तत्र तुशब्देनानर्थक्यनिराकरणार्थेनार्थवत्त्वं सामान्यतः सर्वेषां प्रतिज्ञातम् । श्रुतिवृत्त्या क्रियार्थत्वानवगमे ऽपि क्रियाविध्येकवाक्यत्ववशेन लक्षणया तदपेक्षि- तार्थप्रतिपादनाक्रियार्थत्वमुपपादयितुं विधिनैकवाक्यत्वादित्युक्तमिति योज्यम् । भाष्यमपि यद्यपीत्यादिप्रमाणमित्यन्तमेतत्सूत्रावयवव्याख्यानपरमेव योज्यम् । यद्यप्यर्थवादादिभ्यः श्रुत्या क्रिया, तत्सम्बद्धं वा नावगम्यते; तथापि तत्रैव प्रमाणं विध्युद्देशैकवाक्यत्ववशेन लक्षणया वृत्त्या तत्परत्वसम्भवादिति । एवं सामान्यतः सर्वेषां क्रियार्थत्वमुपपाद्येदानीमर्थवादानां क्रियार्थत्वनिर्वाहाय द्वार- विशेषं प्रतिपादयितुं यो ऽपि चेत्यादिनोक्तं पूर्वपक्षन्तावदनुभाषते—यत्त्विति । क्रियाप्रति- पादकत्वं हि क्रियार्थत्वम्, न चार्थवादैराख्यातवत्स्वरूपेणासौ प्रतिपाद्यते, नापि फलादिपद- वक्तृदंशः कश्चित्साध्यादिः तस्मात्तदर्थस्य भावनांशत्रयानन्तःपातान्न तत्प्रतिपादकत्वं विनार्थवादानां भावनया ग्रहणमित्यर्थः । एवमनुभाष्य निराकर्तुमाह—तत्रेति । यद्यप्यर्थ- वादानां विधिवदनुष्ठापकत्वेन न क्रियार्थत्वम्, क्रियाभिधायकत्वं वा, तथापि प्राशस्त्यज्ञा- पनेनैवानुष्ठापकत्वात्स्वरसतश्च प्राशस्त्याज्ञानादध्ययनविधिवलाल्लक्षणया तादर्थ्यमङ्गी- कार्यम् । न च प्राशस्त्यज्ञानस्य कर्त्तव्यत्वासिद्धावध्ययनफलत्वं युक्तं रागत्तो विधितो वा कर्त्तव्यत्वेनानवगतस्य कस्यचित्फलत्वायोगात् । कर्त्तव्यत्वं च भावनान्तर्गत्या विना न सिध्यतीत्यर्थवादाध्ययनफलत्वोपपत्तये प्राशस्त्यज्ञानस्य कर्तव्यत्वसिद्धयर्थं भावनान्तर्गति- व्युत्पादयितुमारभते—सत्यमिति । ननु न तावदर्थभावनान्तर्गतिः शाब्दभावनाया पूर्वपक्षः प्रागस्त्यज्ञानस्य कैश्चिदिष्यते । न च ततोऽन्या शब्दभावना नाम काचिदुपपत्तिं सहते, शब्दश्रवणानन्तरभाविन्यां हि प्रवृत्तौ हेतुः प्रवृत्त्युत्पादकत्वात् शब्दभावना शब्देनाभिप्रेतः । न चासौ कश्चित्सम्भवति । तथा हि— प्रवर्त्तको लिङादिर्वा तत्क्रिया वा विलक्षणा । अभिधा वाऽथवा ज्ञादिः कार्यं वाऽऽयेष्ठहेतुता ।। १ ।। १. सूत्रेति तत्तच्छावृत्त्या सामान्यविशेषसमाधानपरतया सूत्रं योजनीयमिति ।
७ ] • प्रथमाध्याये द्वितीयपादः ६१ तत्र शब्दः स्वरूपेण वायुवच्चेत्प्रवर्त्तकः । प्रमाणत्वं विहन्येत नियमाच्च प्रवर्त्तयेत् ॥ २ ॥ न च स्वरूपसम्बन्धज्ञानापेक्षो भवेन्न च । प्रकृत्यान्वयमाकाङ्क्षेन्न च स्यात्फलकल्पकः ॥ ३ ॥ अथ प्रवृत्ति हेत्वर्थस्वव्यापाराभिधानतः । प्रवर्त्तकत्वाच्छब्दस्य सर्वदोषनिवारणम् ॥ ४ ॥ तन्न प्रवृत्तिसामर्थ्यात्पादनात्माऽस्य या क्रिया । कार्यार्थ्यादिषु दृष्टासावनुक्तैव प्रवर्त्तिका ॥ ५ ॥ तेनाभिधानवैयर्थ्यात्पूर्वदोषनिवारणम् । अलौकिकी प्रेरणा तु सम्बन्धानुमवाहते ॥ ६ ॥ अभिधातुमशक्यत्वान्न प्रवर्त्तयितुं क्षमा । राजादिवच्च शब्दस्य फलादातृत्वतः स्वतः ॥ ७ ॥ तद्व्यापाराभिधानेऽपि न प्रवर्त्तेत कश्चन । पुरुषार्थोपयोगित्वं न लिङादेश्च गम्यते ॥ ८ ॥ येनास्यानुविधेयत्वात्फलकल्पकता भवेत् । तस्याप्यानुविधेयत्वे शब्दस्य न तदीयताम् ॥ ९ ॥ अज्ञात्वा व्याप्तेः कश्चित्प्रवर्त्तेताभिधावपि । न च शब्दमनुक्त्वैतद्व्यापारत्वं निरूप्यते ॥ १० ॥ स्वरूपवाचितातोऽस्मिन्पक्षेऽनिष्टा लिङां भवेत् । अस्तु तर्ह्यभिधानाख्यो व्यापारोऽस्य प्रवर्त्तकः ॥ ११ ॥ तस्य ह्यर्थप्रतीत्याख्यकार्यकॢप्तस्य केवलम् । कल्प्यं प्रवृत्तिहेतुत्वं लिङ्वाच्यस्येति लाघवम् ॥ १२ ॥ शब्दान्तरगतार्थेऽस्मिन्नभिधा स्यात्प्रवर्त्तिका । पक्षेऽर्थतो विशेषश्चेत्स एव स्यात्प्रवर्त्तकः ॥ १३ ॥ न चास्या अभिधेयत्वाद्विशेषः कार्यतो गते । न युक्तं ह्यभिधेयत्वं सर्वासां हि प्रसज्यते ॥ १४ ॥ अथ प्रवर्त्तनात्वेन कार्यादनवबोधतः । तद्रूपेणाभिधेयत्वं तच्चान्यासु न विद्यते ॥ १५ ॥ तन्नास्या ह्यभिधानात्प्राक् चेत्प्रवर्त्तकरूपता । स्याद्व्यर्थमभिधेयत्वं नास्ति चेत्स्यादसत्यता ॥ १६ ॥ आज्ञादिस्तु न वेदार्थः पुंधर्म्मत्वेन युज्यते । अथ मानान्तरागम्यनियोगापरनामकम् ॥ १७ ॥
६२ मीमांसादर्शनम् [ सू० कार्यं लिङादिवाच्यं सत्स्वतन्त्रं स्यात्प्रवर्त्तकम् । तदप्ययुक्तमज्ञातसम्बन्धत्वालिङर्थता ॥ १८ ॥ मानान्तराप्रमेयत्वे कार्यस्य हि कथं भवेत् । अथ स्वस्यस्वतन्त्रस्य पुंसो लिङश्रवणे सति ॥ १९ ॥ प्रवृत्तेरात्मदृष्टान्तात्कार्यधीहेतुतां शिशुः । अनुमाय लिङस्तत्र वाचकत्वं प्रकल्पयेत् ॥ २० ॥ प्राभाकरसम्मतविध्यर्थनिरूपणम् कार्यं च वेदे षष्ठाद्यसिद्धान्तात्कामिनाऽन्वितम् । नियोज्येनात्मनः कार्यं तया ज्ञातमिति स्थितम् ॥ २१ ॥ नियोज्यश्च स्वसम्बन्धिकार्यंबोद्धाऽभिधीयते । काम्यमानाम्युपायं च बुध्यते कार्यमात्मनः ॥ २२ ॥ कामी न च क्रिया तत्र क्षणिकोपायतां व्रजेत् । क्रियातोऽन्यदतः कार्यं वेदे वाच्यमलौकिकम् ॥ २३ ॥ तत्रापूर्वस्य कार्यत्वं कृत्युद्देश्यत्वलक्षणम् । अयुक्तम्पुमर्थत्वादव्यापारतया न च ॥ २४ ॥ अनुष्ठेयत्वरूपं न व्यापारत्वे स्वतन्त्रता । अव्यापारतया चास्मिन्नियोगो नावकल्पते ॥ २५ ॥ तेनात्मनि नियोक्तृत्वान्नियोग इति वाङ् मृषा । किं च नित्यनिषेधाधिकारेषु फलवर्जनात् ॥ २६ ॥ क्रियातिरिक्तकार्यस्य कथं सिद्धिर्भवेत्तव । कृत्युद्देश्यत्वरूपं च कार्यत्वं चेत्प्रवर्त्तकम् ॥ २७ ॥ तद्रूपत्वात्फलस्यैव प्रसज्येत प्रयोक्तृता । तच्च कामपदोक्तत्वान्न लिङादिभिरुच्यते ॥ २८ ॥ लिङर्थस्य प्रयोक्तृत्वं ततश्चेष्टं न सिध्यति । फलस्य प्रवर्त्तकत्वतिरासः नन्विच्छाजननेनान्यत्सन्वैरिष्टं प्रवर्त्तकम् ॥ २९ ॥ साक्षात्प्रवृत्तिहेतुत्वादतः सैव लिङोच्यते । तद्द्वारेण लिङर्थत्वात्फलं तेन प्रवर्त्तकम् ॥ ३० ॥ नैतद्युक्तं फलेच्छायाः पुंव्यापारतया पुमान् । अस्मिन्पक्षे प्रयोक्ता स्यात् प्रवर्त्त्यंत्वात्स नेष्यते ॥ ३१ ॥ फलस्य प्रीतिरूपत्वं लिङुक्तं चेत्प्रवर्त्तना । फल एव प्रवर्त्तेत नान्यत्रातिप्रसङ्गतः ॥ ३२ ॥
७ ] प्रथमाध्याये द्वितीयपादः ६३ अथाव्यापाररूपत्वात्प्रवृत्त्यविषयत्वतः । फलस्य साधनेऽङ्गावातारन्यायात्प्रवर्त्तते ॥ ३३ ॥ ततः साधनबोधात्प्रागप्रवृत्तेः प्रवर्त्तना । वरं साधनतैवास्तु न क्लेशात्प्राप्तिरूपता ॥ ३४ ॥ तस्याश्च कर्म्मधर्मत्वात्कर्म्मैव स्यात्प्रवर्त्तकम् । प्रवृत्तिविषयत्वाच्च न तद्युक्तं प्रवर्त्तकम् ॥ ३५ ॥ साध्यता फलधर्मोऽथ लिङुक्तः सन्प्रवर्त्तना । नासौ पूर्वमसिद्धत्वात्प्रवर्त्तयितुमर्हति ॥ ३६ ॥ अथानुष्ठेयरूपं कार्य्यत्वं स्यात्प्रवर्त्तकम् । ततोऽर्थभावनैव स्यात्तद्रूपत्वात्प्रवर्त्तिका । सा चाख्यातान्तरे भावात्प्रवृत्तिव्यभिचारिणी ॥ ३७ ॥ कालसंबन्धतोऽर्थानुष्ठेयत्वप्रतिबन्धनात् । तत्राप्रवृत्तिरित्येतत्किं स्यादिति निरूप्यताम् ॥ ३८ ॥ कृत्यात्मभावना या हि न कृतिव्याप्यतां विना । जन्यत्वं प्रागसिद्धत्वात्फलस्येवाप्रवर्त्तकम् ॥ ३९ ॥ अथानिष्पन्नरूपत्वं तदभावेऽपि विद्यते । तस्मात्क्रियात्मकं कार्य्यमथ वा तत्फलात्मकम् ॥ ४० ॥ न ताभ्यामतिरिक्तं वा पूर्वमस्ति प्रवर्त्तकम् । अत एवेष्टहेतुत्वं न तदेकार्थसङ्गतम् ॥ ४१ ॥ प्रवर्त्तकं नापि शुद्धं चन्द्रादौ व्यभिचारतः । शुद्धस्य च लिङर्थत्वे कर्त्तव्यत्वात् प्रतीतितः ॥ ४२ ॥ भवेन्नाकरणे दोषो निष्कामेष्वपि कर्म्मसु । न च द्रव्यगुणादीनां क्वचित्स्यादिष्टहेतुता ॥ ४३ ॥ प्रत्ययेन प्रकृत्यर्थान्वयिस्वार्थाभिधानतः । कर्त्तव्यत्वविशिष्टस्य वाच्यत्वं तु न युज्यते ॥ ४४ ॥ कर्त्तव्यत्वाविनाभावात्तत्प्रतीत्युपपत्तितः । नन्विष्टहेतुतामात्रं लिङा तावन्निरूप्यते ॥ ४५ ॥ कस्येष्टमित्यपेक्षायामेकप्रत्ययवाच्यया । कर्त्तृ भावनयाक्षिप्तस्येत्येवं गमयिष्यते ॥ ४६ ॥ क्रियायां चाप्रवृत्तस्य कर्त्तृ त्वानुपपत्तितः । प्रवृत्तिविषयत्वाख्यं कर्त्तव्यत्वं प्रतीयते ॥ ४७ ॥ एवं तु वर्त्तमानापदेशोऽप्येतत्प्रतीतितः । कर्त्तिष्टसाधनत्वस्य तद्बलेनैव कल्पनात् ॥ ४८ ॥
६४ मीमांसादर्शनम् [ सू० लिङाद्यवाच्यतापत्तेरप्रामाण्यं विधेर्भवेत् । प्रवृत्तिविषयत्वं च नेच्छा विषयतां विना ॥ ४९ ॥ युक्तमिच्छाप्रवृत्त्योर्हि परशुच्छिदयोरिव । भिन्नगोचरता न्याय्या न हेतुफलभावतः ॥ ५० ॥ अत एवेष्टहेतूनां स्वबुद्ध्या यो ऽयमिच्छति । प्रवर्त्तते स तत्रैव नानिष्टेऽपीष्टसाधने ॥ ५१ ॥ तेनेष्टसाधनत्वस्य सद्भावे ऽप्यप्रवृत्तिता । प्रवृत्तिव्यभिचारित्वान्न प्रवर्त्तकतोचिता ॥ ५२ ॥ इच्छात्वव्यभिचारित्वाद्भवोत्पुंसां प्रवर्त्तिका । स्वरूपसत्तामात्रेण न तु ज्ञानमपेक्षते ॥ ५३ ॥ अथापि ज्ञायमानाऽसौ कारणं स्यात्तथापि तु । स्वप्रत्यक्षैकगम्यत्वान्नाभिधानमपेक्षते ॥ ५४ ॥ एतत्सर्वं पूर्वपक्षी मनस्याधाय पृच्छति ॥ ५५ ॥ स्वमतेन विध्यर्थनिरूपणम् कथमिति । उत्तरमाह—इह हीति । अयमाशयः स्वतन्त्रपुरुषप्रवृत्तिर्द्विधा लोके दृश्यते । क्वचित्स्वेच्छयार्थेषु स्वार्थः प्रवर्त्तते, क्वचिदन्यप्रेरितः । आचार्यप्रेरितोऽहं गामानयामि न स्वेच्छयेत्यादिव्यवहारदर्शनात् । यद्यप्याचार्यादिरप्यनिच्छन्तं न शक्नोति प्रवर्त्तयितुम्, तथापि स्वारसिकेच्छाविरहितमपि शिष्यादिकं स्वप्रवर्त्तनाबलेनेच्छामुत्पाद्य प्रवर्त्तयतीति सर्वसाक्षिकम् । तस्माच्छब्दश्रवणानन्तरभाविन्यां प्रवृत्तावाचार्यदेः प्रवर्त्तना- ज्ञापनेन¹ प्रवर्त्तकत्वमवसोयते । का पुनः प्रवर्त्तना ? प्रवृत्तिहेतुभूतः प्रवर्त्तयितुर्धर्मः ²कश्चिदिति ब्रूमः । स्वातन्त्र्ये देवदत्त एव मां प्रवर्त्तयति न यज्ञदत्त इति व्यवस्थानुपपत्तेः प्रवर्त्तनाज्ञापनमात्रेण प्रवर्त्त- कत्वे देवदत्तस्त्वां प्रवर्त्तयतीति प्रवर्त्तनाद्यज्ञदत्तस्यापि प्रवर्त्तकत्वप्रसङ्गः । सर्वत्र लोके पुरुषस्याचार्यदेः प्रवर्त्तयितुर्द्धर्मोऽहमेनं प्रवर्त्तयामीति प्रवर्त्तयितुर्मानसप्रत्यक्षवेद्यः प्रैषादिरूपो नापह्नोतुं शक्यते । वेदे तु पुरुषाभावेन लिङादेरेव प्रवर्त्तकत्वात्तद्धर्मो भवि- ष्याति । कथमज्ञातपूर्वेण प्रवर्त्तयितुर्द्धर्मेणाव्युत्पन्नो बालः प्रथमं लिङादेः संबन्धं गृह्णा- तोति चेत् ? अलौकिकप्रवर्त्तनायां शक्तिग्रहोपायवर्णनां पश्य यदा बुभुक्षितस्य बालस्य रोदनेन स्तन्यदानप्रवर्त्तनां ज्ञात्वा स्तन्यदाने माता प्रवर्त्तते, तदासौ तस्या मातुः प्रवृत्तेः कारणं जिज्ञासमानः कारणान्तरानुपलब्ध्या स्वप्रवर्त्तनायां कारणत्वं प्रकल्प्य गामानये- त्यादिवाक्यश्रवणानन्तरं प्रयोज्यवृद्धप्रवृत्तिं दृष्ट्वा मातृप्रवृत्तिदृष्टान्तेन तस्यामपि प्रवर्त्तना- १. स्वप्रवर्त्तनाज्ञापनेनेत्यर्थः । २. प्रवर्त्तयितुर्धर्मं इति २ पु० पा० ।
७ ] प्रथमाध्याये द्वितीयपादः ६५ ज्ञानकारणत्वमनुमाय तत्कारणजिज्ञासायां लिङादिशब्दश्रवणानन्तर्यात्तस्यैवान्वयव्यति- रेकाभ्यां प्रवर्त्तनाभिधानशक्तिं कल्पयद् केन वार्यते । तत्र च प्रैषादीनां विशेषाणां व्यभिचारित्वेनावाच्यत्वात्सर्वानुयायिनः प्रवर्त्तनासामा- न्यस्य वाच्यत्वेऽवगते, तद्विशेषाकाङ्क्षायां प्रैषादीनां पुरुषधर्म्माणां वेदेऽनुपपत्तेस्तद्वि- लक्षणं विशेषान्तरमभिधेयेन सामान्येन विधिप्रेरणानियोगाख्यं लक्ष्यते । अतो गृहीत- संबन्धतया लिङादिवाच्येन प्रवर्त्तनासामान्ये तद्विशेषस्य प्रेरणाख्यस्य लक्षणयाऽवगति- सम्भवात् संबन्धाग्रहणमदोषः । तस्य च प्रवर्त्तनासामान्यविशेषत्वेन हेतुना प्रैषादिदृष्टान्तेन प्रवर्त्तयितृधर्म्मत्वानुमानाद्वेदे च पुरुषाभावात् भावनादेश्च प्रवृत्तिविषयत्वेन तदानीम- सत्त्वात् प्रवर्त्तकत्वानुपपत्तेः । पारिशेष्याल्लिङादेरेव प्रवर्त्तकत्वावधारणात् दीयत्वसिद्धेनं लिङादिशब्दस्वरूपाभिधानापत्तिः । प्रवृत्तिविषयत्वस्य च श्रेयःसाधनत्वाक्षेपकत्वेन लिङादेः पुरुषार्थोपयिकत्वेनानुविधेयत्वात्प्रवर्त्तकत्वाव्याहतिः । तस्य श्रेयस्साधनत्वाक्षेपः कथं श्रेयःसाधनत्वाक्षेपकत्वमिति चेत् ? पश्य, प्रवर्त्तना तावत् प्रयत्नरूपभावना- विषया सर्वत्रावधार्यते । गामानयेत्युक्ते गवानयने प्रयतमानस्य कुतश्चित्कारणाद् गवानयना- सिद्धावपि मदाज्ञामयं कृतवानित्याज्ञप्तुर्व्यवहारदर्शनात् इतो ऽपसरेत्योक्ते स्वयमप्रयत- मानस्य बलात्केनचिदपसारितस्य जातेऽप्यपसरणे, नायं मदीयामाज्ञां कृतवानित्याज्ञप्तु- र्व्यवहारदर्शनात् । चेतनप्रवर्त्तकत्वाच्च प्रवर्त्तनायास्तस्य च प्रयत्नमन्तरेणान्यत्राप्रवृत्तेः प्रयत्नविषयत्वसिद्धिः प्रयत्नश्चेच्छाकारणकत्वात् तां विना नोपपद्यते । सा च स्वरसतः पुरुषार्थ एव स्वर्गपुत्रपश्वादौ भवन्ती साधनमन्तरेण तदसिद्धेस्तत्सिद्धयर्थं तत्साधने २ संक्रा- मेत् । तेन स्वयमपुरुषार्थस्य यागादेः पुरुषार्थसाधनत्वं विनेच्छाविषयत्वानुपपत्तेः प्रवृत्ति- विषयत्वासम्भवेन तत्र लिङादेः प्रवर्त्तकत्वायोगात्तन्निर्वाहार्थं पुरुषार्थसाधनत्वाक्षेप- कत्वसिद्धिः । न चैवं ३ पुरुषार्थसाधनत्वावगताविच्छात् एव प्रवृत्तिसिद्धेः कारणकारणत्वेनान्वय- व्यतिरेकयोरन्यथासिद्धत्वाल्रिङादीनामप्रवर्त्तकत्वं प्रसज्येतेति शङ्कनीयम् । न हि यत्सि- द्ध्यर्थं यत्कल्प्यते, तेनैव तद्बाधोचिता, कल्पकाभावेनात्मोपमर्द्दप्रसङ्गात् । यथैव च श्रेयःसाधनत्वाकल्पने प्रवर्त्तकत्वानिर्वाहात् तन्निर्वाहाय श्रेयःसाधनत्वं कल्प्यते, तथैव ४ १. वृत्तेरप्यौपाधिकवृत्तिविषयत्वस्वीकारादित्यर्थः । २. तदिति २ पु० ना० । ३. इष्टसाधनताज्ञानस्येच्छाजनकत्वात् तद्द्वाराैव वृत्तिरित्यर्थः । ४. यथा श्रेयःसाधनव्यतिरेकेण विधिना पुरुषो यागे प्रवर्त्तयितुं न शक्यत इति प्रवर्त- कतानिर्वाहाय तत्कल्प्यते तथा प्रवर्तकत्वनिर्वाहाय विहितरूपेण श्रेयःसाधनत्वं कल्पयिष्यते अन्यथास्वरूपे सति श्रेयःसाधने इच्छयैव प्रवृत्तेः प्रवर्त्यस्य फलामावात् विधेः प्रवर्तकत्वं न स्यादित्यर्थः । ५
६६ मीमांसादर्शनम् [ सू० स्वरूपेण यागादेः श्रेयःसाधनत्वे सति इच्छयैव प्रवृत्तिसिद्धेर्लिङादीनां प्रवर्त्तकत्वानिर्वाहा- द्विहितस्वरूपेण श्रेयःसाधनत्वं कल्पयिष्यते । तथा च लोकेऽपि स्वाम्याज्ञामन्तरेण स्वे- च्छया गवानयनादौ कृतेऽपि न तत्फलं वेतनं लभ्यते । तस्मात्प्रवर्त्तकान्तरासम्भवेऽपि प्रेरणाज्ञापनेन लिङादेर्वेदे प्रवर्त्तकत्वं सिद्धम् । सा च प्रेरणा प्रवृत्त्युत्पादकव्यापारत्वाद्भाव- नाशब्देन गीयते, भाव्योत्पादानुकूलस्य व्यापारस्य भावनात्वप्रसिद्धेः । व्यापारत्वं च तस्याः सिद्धरूपत्वे निर्व्यापारायाः प्रवृत्त्युत्पादकत्वासम्भवेन ज्ञानस्य च ज्ञेयव्यापारत्वा- योगाद्व्यापारान्तरकल्पनापत्तेर्गौरवपरिहारार्थं कल्प्यते । प्रेषणाध्येष्णादीनामपि पुरुषा- शयविशेषाणामनेनैव न्यायेन व्यापारत्वाध्यवसानं द्रष्टव्यम् । व्यापारस्य च व्यापारवतो- ऽत्यन्तभेदाभावाच्छब्दात्मिकेत्युक्तम् । एतामेव शब्दात्मिकां शब्दस्यात्मनो व्यापारं भावार्थाधिकरणे तत्रार्थात्मिकायां लिङादिशब्दानां यः पुरुषं प्रति प्रयोजकव्यापारः, सा द्वितीया । शब्दधर्मोऽभिधात्मिका भावना विधिरित्युच्यते (भा० पृ० ३४४) इत्यनेन स्वयमेव विवरिष्यति । लौकिकानां प्रवर्त्तनाविशेषाणां पुरुषधर्मत्वेन शब्दात्मकत्वायोगात् वेदविषयत्वं शब्दभावनाया दर्शयितुमिहेत्युक्तम् । प्रवर्त्तनाविशेषशब्दभावनाविषयभूतायाः प्रयत्नरूपभावनायास्तत्फलप्रवृत्तिविषयत्वसिद्धयर्थं श्रेयोहेतुत्वाक्षेपकत्वायाऽर्थशब्दाभिधेया- र्थयितृचेतनधर्मार्थनापरम् पर्य्ययेच्छाद्योनित्वसूचनार्थमर्थात्मकत्वाभिधानमिति सर्वं मनोहरम् । ननु सत्यपि भावनाद्वये कयाऽर्थवादानां ग्रहणम् अत आह—तत्रेति । अनेन च ग्रन्थेनार्थवादानामर्थभावनांशाप्रतिपादकत्वेऽपि तदनुष्ठापकशब्दभावनाङ्गत्वेनार्थभावना- ख्यक्रियार्थत्वं दर्शितम् । कथं तया ग्रहणमत आह—सा हीति । सा शब्दभावना यस्मादेवं वक्ष्यमाणेन प्रकारेण प्रवर्त्तते अध्ययनविधिवशात्कार्य्यत्वेन प्रतीयते, तस्मात्तदङ्गभूतस्य प्राशस्त्यज्ञानस्य तद्द्वारेण कार्य्यत्वावगमात् साधनापेक्षायामर्थवादानां तत्साधनतयाऽध्ययन- विधिर्नैव विनियोगाद्दर्शपूर्णमासभावनयैव प्रयाजाद्यङ्गभूतद्रव्यदेवतादेः शब्दभावनया ग्रहणं युक्तमित्यर्थः । शब्दभावनायास्तु कार्य्यत्वाप्रतीतौ तद्द्वारेण प्राशस्त्यज्ञानस्य कार्य्य- त्वानवगमात्साधनानपेक्षत्वेन स्वरसतोऽसमर्थानामर्थवादानां लाक्षणिकप्राशस्त्यज्ञानार्थ- त्वायोगात् तादर्थ्येन तया सहग्रहणं न स्यादिति, तमेव प्रकारं दर्शयति—स्वाध्याया- ध्ययनविधिनेति । अध्ययनविधिना हि अधीतैरक्षरैर्यथाशक्ति पुरुषस्योपकर्त्तव्यमिति शक्त्यनुसारेणाक्षराणि विनियुञ्जानेन लिङादीनि सामर्थ्यात्प्रवर्त्तने विनियुज्यन्ते । तत्र चैषां प्रवर्त्तयितृपुरुषाभावेन स्वातन्त्र्यात्कर्तृत्वमवसीयते । स्वतन्त्रकर्तृश्चानियुक्तस्य वैध- विनियोगान्नियोज्यत्वं लिङादीनां कल्प्यते । नन्वस्तु नाम विधायकान्तराणामध्ययनविधिनियोज्यत्वम्, तस्य चात्मनि नियोगा- योगेनात्मना नियोज्यत्वासम्भवात् तद्विषयविधायकान्तराभावाच्च तद्व्यापाररूपायाः शब्दभावनायाः कार्य्यत्वाभावात्प्रेरणाज्ञानजननमात्रेण कृतार्थतया प्रवृत्त्या ग्राहकत्वाभावे
७ ] प्रथमाध्याये द्वितीयपादः ६७ सति; तद्विषयभूतस्य वेदाध्ययनस्य पुरुषार्थानुबन्धित्वाक्षेपप्रमाणाभावाद्देवस्यानर्थक्यं स्यादित्याशङ्कामपाकर्त्तुम्—स्वाध्यायपदोपात्तश्चात्मेत्युक्तम् । अयमभिप्रायः—न तावद- चेतनानां लिङादीनां स्वसम्बन्धिप्रेरणाबोद्धृत्वलक्षणं नियोज्यत्वं मुख्यं युज्यते, प्रवृत्त्या ग्राहकत्वं तु तेषां पुरुषार्थानुबन्धित्वाद्याध्ययनविधिना शक्त्यालोचनेन पुरुषो ज्ञाप्यते स्वारसिकेच्छारहितस्य चादरापरपर्यायग्रहकारित्वं नियोज्यस्यैव दृष्टमित्यौपचारिकमिह नियोज्यत्वम् । अर्थवादान्वयाय शब्दभावनाया विधेयत्वसिद्धयर्थं विवक्षितं तच्चाध्ययन- विधावपि समानम् । तस्य च स्वरूपेण नियोक्तृत्वं स्वाध्यायपदोपात्तत्वरूपेण विधाय- कान्तरसाधारण्येन नियोज्यत्वमित्यौपचारिकभेदाश्रयणात् न विरुद्धमिति । भावयेदिति च विधिः प्रेर्यान्वयात् प्राग्विषयान्वयपक्षे लिङादिप्रेर्यान्वयवशेन व्यापारविशेषानवगमा- त्सामान्यविवक्षयोक्तम् । अत्र भाव्याकाङ्क्षायां यच्छक्यते तदित्यवधारणात् शक्तिप्रदर्शन- पूर्वकं पुरुषप्रवृत्तेर्भाव्यत्वं दर्शयति—तत्रेति । येन लिङादोनां प्रवर्त्तकत्वे शक्तिः, पुरुषस्य च प्रवर्त्यत्वे, तेन कारणेन भावनाया भाव्याकाङ्क्षायां पुरुषप्रवर्त्तनं भाव्यत्वेन संबन्ध्यत इत्यर्थः । प्रवृत्तेः प्रयोज्यव्यापाररूपत्वात्प्रयोज्यान्वयं विना भाव्यत्वासम्भवाच्चेतनं प्रवर्त्तकत्वेन श्रेयस्साधनत्वाक्षेपपर्यन्तत्वसूचनार्थं पुरुषविशेषणम् । प्रेर्यान्वयपूर्वकविषया- न्वयपक्षे तु प्रवर्त्तनाख्ये व्यापारविशेषे एव लिङादेः शक्त्यवधारणात्तत्रैव नियोगकल्प- नायां किंशापेक्षां पुरुष एव पूरयिष्यतीत्याह—अथ त्विति । लिङादिविषया क्रिया प्रवर्त्त- येदित्येवं विशेषरूपेणोच्यते—विधेयतया प्रतिपाद्यत इत्येव योज्यम् । नन्वचेतनत्वाल्लिङादीनां नियोज्यावगमपूर्वकप्रयोजककर्तृत्वानुपपत्तेः कथं तद्वशेन पुरुषप्रवर्त्तनस्य भाव्यत्वाभिधानमित्याशङ्कयाह—यद्यपि चेति । अध्ययनविधिना लिङाद्यध्ययने नियुज्यमानस्य पुरुषस्य कतमं ममोपकारं करिष्यन्तीत्यपेक्षायां प्रवर्त्तनाज्ञा- पनद्वारेण पुरुषार्थसाधनबोधरूपमिति सामर्थ्यालोचनेनावगतौ सत्यां प्रवर्त्तनाज्ञापनमात्र- पर्यवसाने पुरुषार्थसाधनत्वाक्षेपायोगादनुपकारकत्वोपपत्तेर्मातापित्रादिवदाग्रहेणेष्टसाधनेषु कर्मसु प्रवर्त्तयिष्यन्तीति प्रवृत्त्या ग्राहकत्वावगतिमर्हति । तेन लिङादिभिरवश्यं प्रवर्त्तनीय इति लिङादिविषयनियोगावगतिर्या पुरुषस्य भवति; तां लिङादिषु उपचर्य प्रयोजकत्व- व्यवहारोऽयमित्यर्थः । न चैतत्स्वोत्प्रेक्षामात्रेणास्माभिर्लिङादीनां प्रयोजकत्वमुच्यते, किं तु कर्तृवाचिण्वुलप्रयोगदान्यैरपि अभियुक्तैरङ्गीकृतमित्यवसीयत इत्याह—यदि चेति । करणाकाङ्क्षां शक्त्यालोचनेन प्रेरणाज्ञानस्यान्वयं दर्शयति—अथेति । विधेरलौकि- कत्वेन लिङादिप्रतिपाद्यत्वासम्भवमाशङ्क्य प्रवर्त्तनासामान्येन पूर्वोक्तरीत्या सम्बन्धग्रहण- सम्भवात् १ लिङाद्यभिहितेन लक्षणया तत्प्रतिपादनसम्भवप्रदर्शनार्थं पूर्वसम्बन्धानुभवा- पेक्षेणेत्युक्तम् । १. विधिज्ञानं सम्बन्धज्ञानं तयोरित्यर्थः।
६८ मीमांसादर्शनम् [ सू० इतिकर्त्तव्यताकाङ्क्षायां प्राशस्त्यज्ञानस्यान्वयं दर्शयति—कथमिति । ननु विधिज्ञान- मात्रेण प्रवृत्तिसिद्धेरन्यानपेक्षत्वात्कथमित्यपेक्षाप्रदर्शनमयुक्तम् । अथापि भावनान्तरदृष्टान्ते- नात्रापि कथम्भावनाकाङ्क्षा स्यात् । तथापि विधिसम्बन्धज्ञानयोरेव कारणेतिकर्त्तव्य- तात्वसम्भवात्प्राशस्त्यज्ञानस्याज्ञातशक्तिकस्येतिकर्त्तव्यतात्वाभिधानमयुक्तमित्यभिप्रायद्वयेन पृच्छति—कुत एतदिति । एतत्कथमित्यपेक्षणं प्राशस्त्यज्ञानस्य चानुग्राहकत्वं कुत इत्यर्थः । उत्तरम्—बुद्धिपूर्वेति । विध्यन्यथानुपपत्त्ये१ष्टसाधनत्वावगमात् प्रवृत्तिहेत्विच्छोत्पत्तावपि द्रव्यव्ययायासदर्शनेनापि अनिष्टसाधनत्वावगमात्प्रवृत्तिप्रतिबन्धकालस्यहेतुद्वेषसम्भवे प्रवृत्त्य- भावप्रसङ्गात्तदपनायकापेक्षायां प्राशस्त्यज्ञानस्य लोके तदपनयशक्तत्वेन दर्शनाद्युज्यते- ऽनुग्राहकत्वमित्यभिप्रायः । उत्तभ्नातीत्यनेन प्रतिबन्धकापनायकत्वं दर्शितम् । ननु प्रवृत्तिकारणेच्छाविरोधिद्वेषनाशाय प्राशस्त्यज्ञानापेक्षणे फलांशेऽपि तदपेक्षोप- पत्तेः स्वर्गस्वरूपप्रतिपादकानामपि वाक्यशेषाणां प्राशस्त्यपरत्वेन स्वरूपपरत्वाभावसङ्गात् न लौकिकसुखातिरिक्तस्वर्गसिद्धिः स्यादित्याशङ्कयाह—तच्चेति । अयमभिप्रायः—अङ्ग- प्रधानयोरेव२ विषयत्वात्प्रेरणाविषय एव प्राशस्त्यज्ञानस्य कार्यत्वावगतेः फलांशे च स्वारसिकेच्छात् एव प्रवृत्तिसिद्धेरानर्थक्यप्रसङ्गात्, प्रेरणानुपपत्तेः प्राशस्त्यज्ञानस्य कार्यत्वाभावात्, साधनानपेक्षत्वेनार्थवादाग्रहणात्स्वर्गसाधनतो विध्यपेक्षितस्वर्गस्वरूप- प्रतिपादनार्थानां वाक्यशेषाणां प्राशस्त्यपरत्वाभावात्स्वरूपे प्रामाण्यं न विरोत्स्यत इति । क्व तर्हि प्राशस्त्यज्ञानस्य साधनापेक्षेत्यत आह—साधनेति । साधनेतिकर्त्तव्यताविषये प्राशस्त्यज्ञानस्य साधनभूतशास्त्राकाङ्क्षायामपि फलपदादिभिरेव३ तत्सिद्धिसम्भवात्कथ- मर्थवादानां तादर्थ्येन शब्दभावनया ग्रहणमित्याशङ्क्य यथासम्भवं साधनान्तराणि निराकर्त्तुमुपन्यस्यति—तत्पुनरिति । तत्प्राशस्त्यप्रतिपादनं केन शास्त्रेण क्रियेतेत्यर्थः । निराकरोति—तत्रेति । दूषणगणोपन्यासार्थस्तत्र शब्दः । ननु यद्यन्यार्थार्थत्वे प्राशस्त्यार्थत्वं न युज्यते, प्राशस्त्यार्थत्वमेव केवलमस्त्वत आह— विध्युत्तरेति । पूर्वपेक्षितार्थत्यागो न युक्त इत्यभिप्रायः४ । कारणान्तरमाह—लक्षणया चेति । फलाभावापत्तेरपि प्राशस्त्यार्थत्वं न युक्तमित्याह—युगपच्चेति । ननूभयपरत्वा- योगात् फलादिषु तात्पर्याभावेऽपि प्रतीयमानत्वात्फलादीनां सिद्धिः स्यादत आह—न हीति । १. इच्छोत्पादनद्वारा प्रवर्त्तकत्वम्; इच्छा चेष्टसाधनत्वज्ञानं विना न संभवतीति अनु- पपत्तिशब्दार्थः । २. अङ्गप्रधानयोरेव विधिविषयत्वान्न फलांशस्य विषयत्वमित्यर्थः । ३. आदिग्रहणाद्देवतापरिग्रहः यस्मादेतत्फलकर्म तद्देवताकं तस्मात्प्रशस्तमित्यर्थः । ४. साध्यसाधनेतिकर्तव्यताविशिष्टायां भावनायां सिद्धायामेवोद्देश्यत्वन्ततश्च पूर्वमेव फलत्वेनान्वय इत्यर्थः ।
७ ] प्रथमाध्याये द्वितीयपादः ६९ वक्ष्यत इत्यपापश्लोकश्रवणादीनां प्रशंसाार्थत्वेनोपात्तानां फलत्वाभावः पर्णमय्यधिकरणे, जर्तिलयवाग्वा वा जुहुयादित्यादौ लिङ्गे विधित्वाभावो जर्तिलयवाग्वादेश्चेतित्कर्त्तव्यत्वा- भावो दशमे वक्ष्यमाणः परामृष्टः । यत एवोक्तप्रकारेण प्राशस्त्यपरत्वे फलाद्यभावः प्रसज्य- ते, अत एवानन्यलभ्यफलादिपरत्वावधारणान्नार्थात्प्रतीयमानेऽपि प्राशस्त्ये फलपदादीनां तात्पर्यमित्याह—अत एवेति । एतदेव दृष्टान्तद्वारेणोपपादयितुमाह—न हीति । धावन- क्रियैवानिष्पन्नरूपत्वात्कार्यशब्देनोक्ता न तेनान्वीयन्त इत्यर्थः । दार्ष्टान्तिके योजयति— तद्वदिति । इच्छाविरोधिद्वेषनाशवाचिना प्ररोचनाशब्देन तद्धेतुभूतगुणातिशयवत्त्वलक्षणं प्राशस्त्यं लक्षणया व्युत्पत्त्या वोक्तम् । ननु यथा प्रतितिष्ठन्ति ह वा य एता रात्रीरुपयन्तीत्यादीनां प्राशस्त्यपराणामप्या- काङ्क्षितफलसमर्थकत्वमङ्गीकृतम्, तथा भूतिकामादिशब्दानां फलादिपराणामप्याकाङ्क्षित- प्राशस्त्यसमर्थकत्वमपि कस्मान्न स्यादित्याशङ्कयाह—अन्यथानुपपत्त्या चेति । प्रकारान्त- रेण फलप्रतीत्ययोगाद्गत्या तत्र तथाङ्गीकृतम्, न चेहागतिरस्तीत्यभिप्रायः । नन्वर्थ- वादानां स्वरसतः प्राशस्त्यप्रतिपादनशक्त्यभावात् इहापि सर्वप्रमाणप्रत्यस्तमयाद्गतिः समनेत्याशङ्कयाह—प्रमाणाभावश्चेति । स्वरसतोऽशक्तावपि लक्षणया तत्प्रतिपादनशक्ति- सम्भवान्न प्रमाणाभावनिश्चय इति भावः । नन्वेवं तर्हि ‘वसन्ताय कपिञ्जलानालभते' इत्यादावपि अर्थवादाकाङ्क्षा प्रसज्ये- तेत्याशङ्कयाह—तद्यदीति । अतिदेशग्रहणं तस्योक्तो बन्धुस्तस्योक्तं ब्राह्मणमित्यादि- वाचनिकातिदेशविषयं द्रष्टव्यम् । श्रुतविध्यन्यथानुपपत्त्यैव प्राशस्त्यकल्पनोपपत्तावसन्निहि- तार्थवादातिदेशकल्पने प्रमाणाभावात् १ कल्पने वा वसन्तादिवाक्येष्वपि अग्नीषोमीयप्रकृति- त्वेन तदीयार्थवादातिदेशसम्भवाद्विध्युद्देशस्य शक्तिद्वयकल्पनं निरवकाशमेव स्यात्— दर्विहोमन्यायेनेति । यथा दर्विहोमेषु भिन्ने जुहोतीत्यादिजुहोतिचोदनविहितेष्वविहितेति- कर्त्तव्यताकेष्वपि प्रकृतिविशेषा निर्धारणा नियतविध्यन्तातिदेशानुपपत्ते रनियमसर्वातिदेशयो- श्चाष्टमाद्ये निराकृतत्वात् अपूर्वत्वेनाष्टमान्ते वक्ष्यमाणेषु यावच्छ्रुतस्य द्रव्यदेवतादेरिति- कर्तव्यताजातस्य सन्निपत्योपकारित्वेन नियमापूर्वद्वारा करणपूर्वोत्पत्तिमात्रे पर्यवसायितया अन्यत्रावधारितस्याप्यगत्यारादुपकारकाङ्गसाध्यकरणानुग्रहसाधनत्वमपि कल्पितम् । तथा वसन्तादिवाक्येष्वपि विधायकस्यैव करणभूतविधेयज्ञानोत्पत्तिमात्रपर्यवसायितयान्यत्रा- वधारितस्याप्यगत्याऽङ्गभूतप्राशस्त्यज्ञानेऽपि व्यापारः कल्पयिष्यत इत्यर्थः । लक्षणया प्रेरणापरनामधेयस्य विधेः प्रतिपादनात्प्राशस्त्यस्य चान्याथानुपपत्त्याक्षेपाच्छक्तिशब्दो १. ननु कथंचिच्चोदनलिङ्गानुमितवचनादेवार्थवादातिदेशकल्पना भविष्यत्यत आह प्रमाणा- भावादिति । अयं भाव काल्पनिकातिदेशस्यार्थभावनेतिकर्तव्यतानिदेशकल्पकत्वात् अर्थवादानां च प्राशस्त्यप्रतिपादनेन शब्दभावनेतिकर्तव्यताङ्गत्वेन तदंशाप्रतिपादक- त्वादिति प्रत्यक्षवचनस्य निर्विषयत्वं च स्यादित्यपि बोद्धव्यम् ।
७० मीमांसादर्शनम् [ सू० व्यापारामिप्रायो व्याख्येयः । अर्थवादाभावेऽपि विधेरेव स्वानुग्राहकप्राशस्त्याक्षेपकत्वं युक्तं न तु फलेतिकर्त्तव्यतापदानाम्, कथंचिदित्येवकारेण सूचितम् । योजना त्वेवं यस्मात्सर्वंप्रकारं प्रयतमानस्य यः प्रमाणाभावः, स प्रमाणं तस्माद्यदि केनचिदन्येन परोचनां न लप्स्यामह इति । कथंचित्त्वन्यतः प्ररोचनालाभसम्भवेऽन्यत्रोपयुक्तस्य विधायकस्य तदाक्षेपकत्वायोगा- द्धायव्यादिवाक्येषु प्राशस्त्यज्ञानस्य साधनापेक्षा युक्तेत्याह—अथ त्विति । केनचिल्लक्षण- यापि प्रतिपादकेन दूरस्थेनातिदेशिकेनापि यदि प्ररोचना सेत्स्यतीत्यर्थः । नन्वेवं प्राशस्त्यप्रतिपादनस्य साधनभूतप्राशस्त्यशास्त्रापेक्षायामप्यर्थवादानां तत्र शक्त्यनवधारणात्कथं तादर्थ्येन शब्दभावनया ग्रहणमित्याशङ्कयाध्ययनविध्यालोचनेनैवेषां प्राशस्त्यपरत्वं दर्शयितुमाह—तयेति । यथा लभेतेतिविधिः स्वविषयप्राशस्त्यप्रतिपादकं प्रति साकाङ्क्षः, तथा वायुर्वै क्षेपिष्ठा देवतेत्याद्यपि प्रतिपाद्यमर्थं प्रति साकाङ्क्षमेवेति यस्तेन भूतान्वाख्यानरूपेण वाक्यार्थेन१ लक्ष्यमाणः प्राशस्त्यरूपोऽर्थः सोऽर्थवादप्रतिपाद्य- त्वेन स्वाध्यायाध्ययनविधिना परिगृह्यत इत्यन्वयः । प्राशस्त्यार्थवाद प्रयोजनत्वे योग्यतां दर्शयितुमनन्तरप्रवृत्तेत्याद्युक्तम् । विधिसम्बन्धद्वारा चेत्प्राशस्त्यस्य पुरुषार्थानुबन्धित्वं तर्ह्यर्थवादानां विधिनैव साक्षात्प्रतिपादकलक्षणः संबन्धोऽस्तु किमन्तरा प्राशस्त्येनेत्या- शङ्क्य यच्छक्यत इत्याद्युक्तम् । न तावल्लिङादिवत्तस्य विध्यभिधाने शक्तिरस्ति, न च प्राशस्त्यलक्षणा श्रुतिविध्यैक- वाक्यत्वसंभवे वाक्यभेदापादकप्राशस्त्यं विना विध्यनिर्वाहात् प्राशस्त्यलक्षणावश्यकभावेन गौरवापादकमश्रुतविध्यन्तरकल्पनं युक्तमित्याशयः । शक्त्यभावाच्चेन्न साक्षाद्विधिना संबन्धः ततोऽक्षरग्रहण एव साक्षाच्छक्तेः पर्यवसानप्रसङ्गाद्वाक्यार्थपर्यन्तमगमनात् कथं तेन प्राशस्त्यलक्षणा स्यादित्याशङ्क्य अपुरुषार्थत्वेन वेत्याद्युक्तम् । अक्षराणामादिरादानं ग्रहणमक्षरादिशब्देनोक्तम् । तत्रैव तर्हि श्रौततात्पर्यावसानमस्त्वित्याशङ्क्योक्तम्— तत्रापि त्विति । साधनानुरूपेत्यादिना लक्षणाप्रकारो दर्शितः । अयं चोभयाकाङ्क्षा- लक्षणत्वात्प्राशस्त्यार्थवादयोः प्रतिपाद्यप्रतिपादकत्वसंबन्धः समञ्जस एवेत्याह—सोऽय- मिति । एवं चास्मिन्सन्निकृष्टे संवन्धे संभवति विधायकार्थवादयोः प्राशस्त्यविध्या- कांक्षित्वेऽपि प्राशस्त्यविध्योरर्थवादविधायकप्रतिपादितत्वेन प्रतिपादकानाकाङ्क्षत्वादन्य- तराकाङ्क्षालक्षणत्वेन२ च विप्रकृष्टः प्राशस्त्यविधायकयोर्विध्यर्थवादयोर्वा प्रतिपाद्यप्रति- १. ननु केवलार्थवादानां वाक्यत्वाभावाद्वाक्यार्थेनेत्ययुक्तम् । सत्यं वाक्यार्थेनेत्यस्यायमर्थः अर्थवादस्थाने कैः पदार्थैर्लक्ष्यत इति । २. अन्यतरेति विधायकस्य प्राशस्त्याकाङ्क्षायामपि प्राशस्त्यस्य तदनाङ्क्षत्वात्तस्यार्थ- वादैरेव प्रतिपादितत्वात् । एवमर्थवादानां विध्याकाङ्क्षासत्त्वेऽपि न विधेस्तदाकाङ्क्षा- विधायकेनैव विधिप्रतिपादनादित्यर्थः ।